शब्दकल्पद्रुमः
फलिनी || स्त्री (फलमस्या अस्तीति । इनिः । ङीप् ।)
प्रियङ्गुवक्षः ॥ (पर्य्यायोऽस्या यथा, —
“प्रियङ्गुः फलिनी कान्ता लता च महिलाह्वया । गुन्द्रा गुन्द्रफला श्यामा विष्वक्सेनाङ्गना प्रिया ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ यथा, रघौ । ८ । ६१ । “मिथुनं परिकल्पित त्वया सहकारः फलिनी च नन्विमौ अविधाय विवाहसत्क्रिया- मनयो र्गम्यत इत्यसाम्प्रतम् ॥”)
अग्निशिखावृक्षः । इत्यमरः । २ । ४ । १३६ ॥