वाचस्पत्यम्
फलेन्द्र || पु० फलेन इन्द्र ऐश्वर्य्यान्वितः । राजजम्बुवृक्षे । “फलेन्द्रा कथितानन्द्रा राजजम्बूर्महाफला” भावप्र० ।
शब्दकल्पद्रुमः
फलेन्द्रः || पुं, (फलेन इन्द्रः ऐश्वर्य्यशालीव । बृहत्- फलत्वादेवास्य तथात्वम् ।)
बृहज्जम्बुः । तत्- पर्य्यायः । नन्दः २ राजजम्बुः ३ महाफला ४ सुरभिपत्रा ५ महाजम्बुः ६ । अस्य गुणाः । स्वादुत्वम् । विष्टम्भित्वम् । गुरुत्वम् । रोचन- त्वञ्च । इति भावप्रकाशः ॥