वाचस्पत्यम्
फलोदय || पु० ६ त० । १ फलोत्पत्तौ २ लाभे ३ स्वर्गे ४ हर्षे च शब्दर०
शब्दकल्पद्रुमः
फलोदयः || पुं, (फलस्य उदयो यत्र ।)
लाभः । सुरालयः । हर्षः । इति शब्दरत्नावली ॥ (फलस्य उदयः ।)
फलोत्पत्तिः । यथा, रघुः । “सोऽहमाजन्मशुद्धानामाफलोदयकर्म्मणाम् । आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥”