वाचस्पत्यम्
फल्गुदा || स्त्री फल्गुनद्यां “तत्र देशे गया नाम पुण्यदेशोऽस्ति पावनः । नदी च फल्गुदा नाम पितॄणां स्वर्गदायिनी” वृहद्धर्म पु० ।
शब्दकल्पद्रुमः
फल्गुदा || स्त्री (फल्गुरिति नाम ददाति धारय तीति । दा धारणे + कः ।)
गयानदी । यथा, “तत्र देशे गया नाम पुण्यदेशोऽतिविश्रुतः । नदी च फल्गुदा नाम पितॄणां स्वर्गदायिनी ॥” इति बृहद्धर्म्मपुराणे ५६ अध्यायः ॥