वाचस्पत्यम्
फल्गुवृन्ताक || पु० फल्गुना रम्येण वृन्तेन आकायति आ + कै—क । श्योनाकभेदे । राजनि० ।
शब्दकल्पद्रुमः
फल्गुवृन्ताकः || पुं, (फल्गुना वृन्तेनाकायति शोभते इति । आ + कै + कः ।) श्योनाक- प्रभेदः । इति राजनिर्घण्टः ॥