वाचस्पत्यम्
फाणि || स्त्री स्फाय—नि पृषो० । १ गुडविकारे, २ करम्भे (दधि- मिंश्रितसक्तौ) च उणादिकोषः ।
शब्दकल्पद्रुमः
फाणिः || स्त्री (फाणयतीति । फण गतौ + णिच् + इन् ।) गुडः । करम्भः । इत्युणादिकोषः ॥