वाचस्पत्यम्
फाणित || न० फण—णिच्—क्त । गुडविकारभेदे (फेणी) अमरः “इक्षो रमसस्तु य पक्वः किञ्चिद्गाढो बहुद्रवः । स एवेक्षुविकारेषु ख्यातः फाणितसंज्ञया” भावप्र० । “फाणितं गुर्वभिशन्दि वृंहणं कफशुककृन् । वातपित्तश्रमहरं मूत्रवस्तिविशोधनम्” तद्गुणास्तत्रीक्ताः ।
शब्दकल्पद्रुमः
फाणितं || क्ली (फण गतौ + णिच् + क्तः ।)
अर्द्धा- वर्त्तितेक्षुरसः । फेणीति ख्यातम् । इत्यमर- भरतौ ॥ (यथा, महाभारते । १३ । ६४ । २३ । फल्गुनी पूर्ब्बसमये ब्राह्मणानामुपोषितः । भक्ष्यान् फाणितसंयुक्तान् दत्त्वा सौभाग्य- मृच्छति ॥”)
अस्य गुणाः । गुरुत्वम् । अभिष्यन्दित्वम् । बृंहणत्वम् । कफशुक्रलत्वम् । वातपित्तश्रमनाशि- त्वम् । मूत्रवस्तिविशोधनत्वञ्च ॥ * ॥
“इक्षो रसस्तु यः पक्वः किञ्चिद्गाढो बहुद्रवः । स एवेक्षुविकारेषु ख्यातः फाणितसंज्ञया ॥” इति भावप्रकाशः ॥ (यथा च । “शिराहर्षेऽञ्जनं कुर्य्यात् फाणितं मधुसंयुतम् ॥” इति वैद्यकचक्रपाणिसंग्रहे नेत्ररोगाधिकारे ॥ “फाणितं शक्तवः सर्पि र्दधिमण्डोऽम्लकाञ्जिकम् । तर्पणं मूत्रकृच्छ्रघ्नमुदावर्त्तहरं पिबेत् ॥” इति चरके सूत्रस्थाने २३ अध्याये ॥)