वाचस्पत्यम्
फाण्ट || न० फण—क्त नि० । १ अनायासेन कृते अमरः । “क्षिप्त्वोष्ण- तोये मृदितः फाण्ट इत्यभिधीयते” इत्युक्ते २ क्वाथभेदे पु० । “क्षुण्णद्रव्यफले मम्यक् जलमुष्णं विनिःक्षिपेत् । पात्रे- चतुःपलमितं ततस्तु स्रावयेज्जलम् । सोऽयं चूर्णद्रवः फाण्टः भिषग्भिरभिधीयते” वैद्यक० ।
शब्दकल्पद्रुमः
फाण्टं || त्रि (फण्यते स्मेति । फण गतौ + “क्षुब्ध- स्यान्तध्वान्तेति ।” ७ । २ । १८ । इति निपा- तनात् साधुः ।)
अनायासकृतम् । इत्यमरः । ७ । १ । ९४ ॥ कषायभेदः । यथा, —
“क्षिप्त्वोष्णतोये मृदितः फाण्ट इत्यमिधीयते ।” अपि च । “क्षुण्णद्रव्यपले सम्यक् जलमुष्णं विनिःक्षिपेत् । पात्रे चतुःपलमिति ततस्तु स्रावयेज्जलम् ॥ सोऽयं चूर्णद्रवः फाण्टो भिषग्भिरभिधीयते ॥” इति वैद्यकपरिभाषा ॥ (तथास्य प्रस्तुतविधिः । “सद्योऽभिष्णु पूतस्तु फाण्टन्तन्मानकल्पने ॥” इति वाभटकल्पस्थाने षष्ठेऽध्याये ॥)