वाचस्पत्यम्
फाल || न० फलाय शस्याय हितम् अण्, फल्यते विदार्य्यते भूमिरनेन वा घञ् । १ स्वनामख्याते लाङ्गलमुखस्थे लौहभेदे अमरः । फालमस्त्यस्य अच् । २ बलदेवे ३ महादेवे च प० । फलस्य विकारः अण् । ४ कार्पासवस्त्रे मेदि० । ५ तप्तफालकरणपरीक्षाभेदे न० । फलेषु मवः अण् । ६ ज- म्बीरवीजे पु० कुलचन्द्र । फालदिव्यप्रकारश्च विव्यत० उक्तो यथा “वृहस्पतिः “आयसं द्वादशपलथटितं फाल- मुच्यते । अष्टाङ्गुलं भवेद्दीर्घं चतुरङ्गुलविस्तरम् । अग्नि- वर्णं ततश्चौरो जिह्वया लेहयेत् सकृत् । न दग्धश्चे- च्छुद्धिमियादन्यथा स तु हीयते” चौरोऽत्र गोचौरः “गोचौरस्य प्रदातव्य तप्तफालावलेहनम्” इति स्मृते- रिति मैथिलाः । अत्रापि त्वमग्ने इत्यादिमन्त्रानन्तरम् । “आयसं लेलिहानस्य जिह्वयापि समादिशेत्” इति पितामहोक्तेः प्राड्विवाकशोध्याभ्यामग्न्यभिमन्त्रणं का- र्य्यम् । अत्र प्रयोगः लौकिकचत्वारिंशत्तोलकमितं लौहघटितमष्टयवमध्यात्मकाङ्गुलाघदीर्घम् तथाविध- चतुरङ्गुलप्रस्तारं फालमग्नौ तापयेत् । तत्र प्राड्- विबाकोधर्मावाहनादिहवनान्तं कर्म कृत्वा दक्षिणां दत्त्वा समन्त्रकं प्रतिज्ञापत्रं शोध्यशिरसि निधाय ओम् “त्वमग्ने वेदाश्चत्वारस्त्वञ्च यज्ञेषु ह्वयसे । त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् । जठरख्यो हि मूतानां ततो वेत्सि शुमाशुभम् । पापं पुनासि वै यस्मात् तस्मात् पावक उच्यसे । पापेषु दर्शयान्तानमर्चिष्मान् भव पा- यक! । अथ वा शुद्वभावेषु शीतो भव हुताशन! । त्वमेव सर्वभूतानामन्तशरसि साक्षिवत् । त्वमेव देव! जानीषे न विदुर्यानि मानवाः । व्यवहारातिशस्तीऽयं मानुषः शुद्धिमिच्छति । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि” । इत्येतैः फालस्यमग्निमभिमन्त्रयेत् । शोध्यस्तु “त्वमग्ने सर्वभूतान्तानामन्तश्चरसि पावक! । साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं कवे! मम” इत्यनेनाभिमन्त्र्याग्निवणं फालं जिह्वया सकृत् लिह्यात् । नदन्धश्चेत् शुद्धः” ।
शब्दकल्पद्रुमः
फालं || क्ली (फलाय शस्याय हितम् । फल + अण् । यद्वा, फल्यते विदार्य्यते भूमिरनेनेति । फल + घञ् ।)
हलोपकरणम् । इति मेदिनी । ले, ३४ ॥
शब्दकल्पद्रुमः
फालः || पुं, (फल्यते विदार्य्यते क्षेत्रमनेनेनि । फल + करणे घञ् ।)
लाङ्गलस्थभूमिविदारक- लौहः । फल्यते विशीर्य्यते मूमिरनेन सः । तत्पर्य्यायः । कृषिकः २ । इत्यमरः । २ । ९ । १३ ॥ कृषकः ३ । फलम् ४ । इति भरतः ॥ कृषि- का ५ । फालम् ६ । इति मुकुटः ॥ कुशिकम् ७ । इति हेमचन्द्रः । ३ । ५५५ ॥ महादेवः । बल- देवः । कार्पासवस्त्रे, त्रि । इति मेदिनी । ले, ३४ ॥ नवविधदिव्यान्तर्गताष्टमदिव्यम् । तस्य विधि- र्यथा । बृहस्पतिः । “आयसं द्बादशपलघटितं फालमुच्यते । अष्टाङ्गुलं भवेद्दीर्घं चतुरङ्गुलविस्तरम् ॥ अग्निवर्णं ततश्चौरो जिह्वया लेहयेत् सकृत् । न दग्धश्चेच्छुद्धिमियादन्यथा तु स हीयते ॥” चौरोऽत्र गोचौरः । गोचौरस्य प्रदातव्यं तप्त- फालावलेहनमिति स्मृतिरिति मैथिलाः ॥ अत्रापि त्वमग्ने इत्यादिमन्त्रानन्तरं आयसं लेलिहानस्य जिह्वयापि समादिशेदिति पिता- महोक्तेः प्राड्विवाकशोध्याभ्यामग्र्यभिमन्त्रणं कार्य्यम् ॥ * ॥
तत्र प्रयोगः । लौकिकचत्वारिंश- त्तोलकमितं लौहघटितमष्टयवमध्यात्मकाङ्गुलाष्ट- दीर्घं तथाविधचतुरङ्गुलप्रस्तारं फालमग्नौ ताप- येत् । तत्र प्राड्विवाको धर्म्मावाहनादिहवनान्तं कर्म्म कृत्वा दक्षिणां दत्त्वा, — ‘ॐ त्वमग्ने वेदाश्चत्वारस्त्वञ्च यज्ञेषु हूयसे । त्वं मुखं सर्व्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ॥ जठरस्थोऽसि भूतानां ततो वेत्सि शुभाशुभम् । पापं पुनासि वै यस्मात्तस्मात् पाधक उच्यते ॥ पापेषु दर्शयात्मानमर्च्चिष्मान् भव पावक ! । अथवा शुभभावेन शीतो भव हुताशन ! ॥ त्वमग्ने सर्व्वभूतानामन्तश्चरसि साक्षिवत् । त्वमेव देव जानीषे न विदुर्यानि मानवाः ॥ व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं संशयादस्माद्धर्म्मतस्त्रातुमर्हसि ॥’ इत्येतैः फालस्थमग्निं अभिमन्त्रयेत् । शोध्यस्तु प्रतिज्ञापत्रं शिरसि निधाय । ‘त्वमग्ने सर्व्वभूतानामन्तश्चरसि पावक ! । साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं करे मम ॥’ इत्यनेनाभिमन्त्र्य अग्निवर्णं फालं जिह्वया सकृ- ल्लिह्यात् न दग्धश्चेत्तदा शुद्धः ।” इति दिव्य- तत्त्वम् ॥