संस्कृत-शब्दकोशः

फाला फाल्गुनानुज

फाल्गुन

वाचस्पत्यम्

फाल्गुन ||‍ पु० फल्गुनीयुक्ता पौर्णमासी अण् सा यत्र मासे जेवे वर्षे अर्द्धमासे वा अण् । चैत्रावधिके द्वादशे १ स्वनामख्याते मासभेदे २ तादृशे पक्षे ३ जैवे बर्षभेदे च कार्त्तिकशब्दे १९४९ पृ० दृश्यम् । “अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुश्च त्रिभोमत” इत्युक्तेः पौर्णमास्यां फाल्गुनीरूपनक्षत्रत्रययोगात् तथात्वम् । स च मासः त्रिविधः मुख्यगौणचान्द्रसौरभेदात् तत्र कुम्भस्थरम्यरष्य शुक्लप्रतिपदादिदर्शान्तो मुखचान्द्रः । तथाभूतकृष्णप्रतिपदा- दिषौर्णमाण्डन्तो गौणः, कुम्भस्थरविकः सौरः, इति । अयञ्च शब्दः दन्त्यनान्ते मेदिनिकोषे पठितः । फाल्गुने गगने फेने णत्वमिच्छन्ति वर्वराः” कारिकायाम् अणत्वमिति- कल्पनं मेदिनिविरोघान् प्रामादिकमेव । ४ तत्पौर्ण- मास्यां स्त्री ङीप् । ५ अर्जुनाख्ये पाण्डवे तन्नामकत्वे कारणम् भा० वि० ४४ अ० उक्तं यथा “उत्तराभ्या कल्गु- नीभ्यां नक्षत्राभ्यामहं दिवा । जातो हिमवतः पृष्ठे तेन मां फाल्गुनं विदुः” । ६ अर्जुनवृक्षे पु० मेदि० ।


शब्दकल्पद्रुमः

फाल्गुनः || पुं, (फलति निष्पादयतीति । फल् + “फलेर्गुक् च ।” उणा० ३ । ५६ । इति उनन् ततो गुक् । ततः प्रज्ञाद्यण् । यद्वा फल्गुन्यां फल्गुनीनक्षत्रे जातः फल्गुनः । स एव । अण् एतन्निरुक्तिर्यथा, महाभारते । ४ । ४२ । १६ । “उत्तराभ्याञ्च पूर्ब्बाभ्यां फल्गुनीभ्यामहं दिवा । जातो हिमवतः पृष्ठे तेन मां फाल्गुनं विदुः ॥”)
गुडाकेशः । नदीजवृक्षः । अर्ज्जुनवृक्षः । तपस्य मासः ॥ यथा, —
“फाल्गुनस्तु गुडाकेशे नदीजार्ज्जुनभूरुहे । तपस्यसंज्ञे मासे तत्पूर्णिमायान्तु फाल्गुनी ॥” इति दन्त्यनान्तवर्गे मेदिनी ॥ अतएव । “फाल्गुने गगने फेने णत्वमिच्छन्ति वर्व्वराः ।” इति कारिका समूलिका । अत्र अणत्वमिच्छ- न्तीति अकारप्रश्लेषो भ्रान्तानाम् ॥ * ॥
(फाल्गुनी पौर्णमासी अस्मिन्निनि । “विभाषा फल्गुनीश्रवणकार्त्तिकीचैत्रिभ्यः ।” ४ । २ । २३ । इति पक्षे अण् ।)
वैशाखादिद्बादशमासान्तर्गतैकादशमासः । फल्गुनीनक्षत्रयुक्ता पौर्णमासी यस्मिन् मासे सः । इति तु प्रायिकाभिप्रायम् । स च त्रिविधः । मुख्यचान्द्रो गौणचान्द्रः सौरश्च । यथा । कुम्भस्थरविप्रारब्धशुक्लप्रतिपदादिदर्शान्तो मासो मुख्यचान्द्रः । मुख्यचान्द्रफाल्गुनमासीयपौर्ण- मास्यन्तः कृष्णप्रतिपदादिको मासो गौण- चान्द्रः । कुम्भराशिस्थरविभोगोपलक्षितकाला- त्मको मासः सौरः । इति मलमासतत्त्वम् ॥ * ॥
तत्पर्य्यायः । तप्रस्यः २ फाल्गुनिकः ३ फल्गुनः ४ । इत्यमरभरतौ ॥ वत्सरान्तकः ५ । इति राजनिर्घण्टः ॥ * ॥
तत्र जातफलम् । “प्रियंवदः सज्जनवल्लभश्च परोपकारी विमलाशयश्च । दाता नितान्तं प्रमदाभिलाषी स्यात् फाल्गुने यस्य जनस्य जन्म ॥” इति कोष्ठीप्रदीपः ॥ अथ फाल्गुनकृत्यम् । तत्र माघ्यनन्तरं फाल्गुनकृष्णाष्टम्यां कालशाकवास्तूकशाकोप- करणान्नेन श्राद्धं कर्त्तव्यम् ॥ * ॥
गौणचान्द्र- फाल्गुनकृष्णचतुर्द्दश्यां शिवरात्रिव्रतम् । यद्दिने प्रदोषनिशीथोभयव्यापिनी चतुर्द्दशी तद्दिने व्रतमुभयव्याप्त्यनुरोधात् । यदा पूर्ब्बेद्युर्निशीथ- व्यापिनी परेद्युः प्रदोषमात्रव्यापिनी तदा पूर्ब्बे- द्युर्व्रतं प्रधानकालव्याप्त्यनुरोधात् । यदा तु पूर्ब्बेद्युर्न निशीथव्याप्तिः परदिने प्रदोषव्यापिनी तदा परदिने प्रदोषव्यापिनीति वचनात् ॥ * ॥
मुख्यचान्द्रफाल्गुनशुक्लद्वादशी गोविन्दद्वादशी । “फाल्गुने शुक्लपक्षस्य पुष्यर्क्षे द्बादशी यदि । गोविन्दद्वादशी नाम महापातकनाशिनी ॥” महापातकनाशकामो गङ्गायां स्नानमहं करिष्ये । अत्र पद्मपुराणीयो मन्त्रः । “महापातकसंज्ञानि यानि पापानि सन्ति मे । गोविन्दद्बादशीं प्राप्य तानि मे हर जाह्नवि ! ॥” फाल्गुनपौर्णमास्यां दोलयात्रा । तीर्थचिन्ता मणौ ब्रह्मपुराणम् । “नरो दोलागतं दृष्ट्वा गोविन्दं पुरुषोत्तमम् । फाल्गुन्यां संयतो भूत्वा गोविन्दस्य पुरं व्रजेत् ॥” स्कन्दपुराणीयपुरुषोत्तममाहात्म्ये त्रिंशाध्याये । “फाल्गुन्यां क्रीडनं कुर्य्यात् दोलायां मम भूपते ! ॥” इति कृत्यतत्त्वम् ॥



Correction: