वाचस्पत्यम्
फाल्गुनिक || पु० फाल्गुनीनक्षत्रयुक्ता पौर्णमासी अस्मिन् मासे ठक् । चैत्रावधिके द्वादशे मासे ।
शब्दकल्पद्रुमः
फाल्गुनिकः || पुं, (फाल्गुनी पौर्णमास्यस्मिन् मासे इति । “विभाषा फाल्गुनीश्रवणेति ।” ४ । २ । २३ । इति ठक् ।)
फाल्गुनमासः । इत्यमरः । १ । ४ । १५ ॥