फाल्गुनिक
फि
फाल्गुनी
शब्दकल्पद्रुमः
फाल्गुनी || स्त्री (फल्गुनीभिर्युक्ता पौर्णमासी । “नक्षत्रेण युक्तः कालः ।” ४ । २ । ३ । इति अण् । ततो ङीप् ।)
फाल्गुनमासस्य पूर्णिमा । इति मेदिनी । ने, ९६ ॥ पूर्ब्बफल्गुनीनक्षत्रम् । उत्तरफल्गुनीनक्षत्रम् । इत्यमरटीकायां भरतः ॥