शब्दकल्पद्रुमः
फिरङ्गिणी || स्त्री (फिरङ्गदेशो जन्मस्थानत्वेना- स्त्यस्या इति । फिरङ्ग + इनि । ङीप् ।) फिरङ्गदेशोद्भवनारी । यथा, — “गन्धरोगः फिरङ्गोऽयं जायते देहिनां ध्रुवम् । फिरङ्गिणोऽतिसंसर्गात् फिरङ्गिण्याः प्रसङ्गतः ॥” इति भावप्रकाशः ॥