शब्दकल्पद्रुमः
फुल्लदाम || [न्] क्ली, (फुल्लानां पुष्पाणां दाम इव ।)
छन्दोभेदः । यथा, —
“मो गौ नौ तौ गौ शरहयतुरगैः फुल्लदाम प्रसिद्धम् ॥” उदाहरणं यथा, —
“शश्वल्लोकानां प्रकटितकथनं ध्वस्तमालोक्य कंसं हृष्यच्चेतोभिस्त्रिदिववसतिभिर्व्योमसंस्थैर्वि- मुक्तम् । मुग्धामोदेन स्थगितदशदिशाभोगमाहूतभृङ्गं मौलौ दैत्यारेर्न्यपतदनुपमं स्वस्तरोः फुल्लदाम ॥” इति छन्दोमञ्जरी ॥