वाचस्पत्यम्
फुल्ललोचन || त्रि० फुल्लं बिकसितं लोचनमस्य । १ विकसितनेत्रे स्त्रियां स्वाङ्गत्वेऽपि बह्वच्कत्वात् टाप् । २ मृगभेदे पुंस्त्री० शब्दच० स्त्रियां जातित्वात् ङीष् ।
शब्दकल्पद्रुमः
फुल्ललोचनः || पुं, (फुल्ले विकसिते लोचने यस्य ।)
मृगविशेषः । इति शब्दचन्द्रिका ॥ प्रफुल्लनेत्र- युक्ते, त्रि ॥