संस्कृत-शब्दकोशः

फेणदुग्धा फेणवाहिन्

फेणप

शब्दकल्पद्रुमः

फेण(न)पः || पुं, स्वयंपतितफलादिजीविमुनिविशेषः । यथा, श्रीभागवते । ३ । १२ । ४३ । “वैखानसा वालिखिल्यौडुम्बराः फेणपा वने । न्यासे कुटीचकः पूर्ब्बं बह्वोदो हंसनिष्क्रियौ ॥” “वने स्थिताश्चत्वारः । तत्र वैखानसाः अकृष्ट- पच्यवृत्तयः । वालिखिल्याः नवेऽन्ने लब्धे पूर्ब्ब- सञ्चितान्नत्यागिनः । औडुम्बराः प्रातरुत्थाय यां दिशं प्रथमं पश्यन्ति तत आहृतैः फला- दिभिर्ज्जीवन्तः । फेणपाः स्वयं पतितैः फला- दिभिर्ज्जीवन्तः । कुटीचकः स्वाश्रमधर्म्मप्रधानः । बह्वोदः कर्म्मोपसर्ज्जनीकृत्य ज्ञानाभ्यासप्रधानः । हंसो ज्ञानाभ्यासनिष्ठः । निष्क्रयः प्राप्ततत्त्वः । एते च सर्व्वे यथोत्तरं श्रेष्ठाः ।” इति तट्टीकायां श्रीधरस्वामी ॥ (फेणं पिबतीति । फेण + पा + कः । फेनपानकर्त्तरि, त्रि । यथा, महा- भारते । १ । ६४ । २२ । “फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः ॥”)



Correction: