वाचस्पत्यम्
फेत्कारिणी || स्त्री तन्त्रभेदे ।
शब्दकल्पद्रुमः
फेत्कारिणी || स्त्री (फेत् करोतीति । कृ + णिनिः । ङीप् ।)
तन्त्रविशेषः । यथा, —
“उन्मत्तभैरवं नारसिंहं डामरभैरवम् । शिवाकारं मलिन्याद्यमसिताङ्गादि यामलम् ॥ सिद्धयोगेश्वरं तन्त्रं योगिनीजालमम्बरम् । दृष्ट्वा कृत्था विधिं फेत्कारिणीतन्त्रं विरच्यते ॥” इति प्रथमश्लोकद्वयम् ॥ “फेत्कारिणीतन्त्र इयं मयोक्ता कृत्या सभस्तागमसारभूता । शत्रोर्विनाशाय धनाय धर्म्म- मोक्षाय सम्यक् प्रयतो नियोज्या ॥” इति फेत्कारिणीतन्त्रस्य शेषश्लोकः ॥