वाचस्पत्यम्
फेनक is an alternate of फेणक. फेण(न)क || स्वार्थे क संज्ञायां कन् वा । १ फेनशब्दार्थे २ पिष्टकभेदे त्रिका० ।
शब्दकल्पद्रुमः
फेनकः || पुं, (फेन + स्वार्थे संज्ञायां वा कन् ।)
फेनः । इति त्रिकाण्डशेषः ॥ पिष्टकविशेषः । अस्य गुणाः । लघुत्वम् । रूक्षत्वम् । शुक्र- कारित्वम् । पित्तवायुनाशित्वञ्च । इति राज- वल्लभः ॥ (यथा च सुश्रुते । १ । ४६ । “हृद्याः पथ्यतमास्तेषां लघवः फेनकादयः ॥” गात्रमार्ज्जनादिवत् क्रियाविशेषः । तस्य गुणा यथा, सुश्रुते चिकित्सितस्थाने २४ अध्याये । “ऊर्व्वोः सञ्जनयत्याशु फेनकः स्थैर्य्यलाघवे । कण्डूकोठानिलस्तम्भमलरोगापहश्च सः ॥”)