वाचस्पत्यम्
फेनिल is an alternate of फेणिल. फेणि(नि)ल || त्रि० फे०—(ण) + अत्यर्थे इलच् । फेन(ण)वि- शिष्टे । २ कीदिकले ३ मदनवृक्षफले च न० मेदि० । ४ वदरवृक्षे राजनि० ५ अरिष्टवृक्षे च पु० अमरः ।
शब्दकल्पद्रुमः
फेनिलं || क्ली (फेनोऽस्त्यस्येति । फेन + “फेना- दिलच्च ।” ५ । २ । ९९ । इति इलच् ।)
कोलि- फलम् । (अस्य पर्य्यायो यथा, —
“पुंसि स्त्रियाञ्च कर्क्कन्धुर्वदरी कोलमित्यपि । फेनिलं कुवलं घोठा सौवीरं वदरं महत् । अजप्रिया कुहा कोली विषमो भयकण्टका ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
मदनफलम् । सफेने, त्रि । इति मेदिनी ॥ (यथा, महाभारते । १ । १५३ । १० । “उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु ॥”)
शब्दकल्पद्रुमः
फेनिलः || पुं, (फेन + इलच् ।)
अरिष्टवृक्षः । इत्यमरः । २ । ४ । ३१ ॥ हारिठा इति ख्यातः ॥ (अस्य पर्य्यायो यथा, —
“अरिष्टकस्तु माङ्गल्यः कृष्णवर्णोऽर्थसाधनः । रक्तबीजः पीतफेनः फेनिलो गर्भपातबः ॥” इति मावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
वदरवृक्षः । इति राजनिर्घण्टः ॥ (स्त्रियां टाप् । जलब्राह्मी । यथा, मुश्रुते उत्तरतन्त्रे ३९ अध्याये । “अम्लपिष्टैः सुशीतैश्च फेनिलापल्लवैस्तथा ॥”)