संस्कृत-शब्दकोशः

फेरण्ड फेरु

फेरव

वाचस्पत्यम्

फेरव ||‍ पुंस्त्री फे इत्यव्यक्तो रवोऽप्य । १ शृगाले अमरः । २ राक्षमे मेदि० । स्त्रियां ङीष् ३ धूर्त्ते त्रि० शब्दर० ।


शब्दकल्पद्रुमः

फेरवः || पुं, (फे इति रवो यस्य ।)
शृगालः । इत्यमरः । २ । ५ । ५ ॥ (यथा, कथासरित्सागरे । ४७ । ५३ । “नृत्यतां तरतां रक्ते नदतां चोत्सवाय सः । शूराणां फेरवाणाञ्च भूतानाञ्चाभवद्रणः ॥”)
राक्षसः । इति मेदिनी । वे, ४४ ॥ धूर्त्ते हिंस्रे च, त्रि । इति शब्दरत्नावली ॥



Correction: