संस्कृत-शब्दकोशः

बकवैरिन् बकाची

बकव्रतिन्

शब्दकल्पद्रुमः

ब(व)कव्रती || [न्] पुं, (बकव्रतमस्यास्तीति इनिः ।)
मिथ्याविनीतः । बकवृत्तिः । इति जटाधरः ॥ तस्य लक्षणं यथा, —
“अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च बकव्रतधरो द्विजः ॥” इति दानसागरे मनुः ॥



Correction: