शब्दकल्पद्रुमः
बडिशं || क्ली (बलिनो मत्स्यान् श्यति नाशय- तीति । शो + कः । लस्य डत्वम् ।)
मत्स्यधर- णार्थं वक्रलौहकण्टकविशेषः । वँड्शी इति भाषा । तत्पर्य्यायः । मत्स्यवेधनम् २ । इत्यमरः । १ । १० । १६ ॥ बलिशम् ३ बडिशी ४ बडिशा ५ । इति भरतः ॥ बलिशी ६ मत्स्यवेधनी ७ । इति तट्टिकान्तरम् ॥ बलिसी ८ बलिसम् ९ वरिशी १० बलिशिः ११ । इति शब्दरत्नावली ॥ मत्स्य- भेदनम् १२ । इति जटाधरः ॥ (यथा, महा- भारते । १ । २८ । १० । “यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा । दहेदङ्गारवत् पुत्त्र ! तं विद्यात् ब्राह्मणर्षभम् ॥”)