शब्दकल्पद्रुमः
बणिज्या || स्त्री (बणिजां कर्म्म । बणिज् + य । टाप् । स्वभावात् स्त्रीलिङ्गोऽयम् ।) बाणिज्यम् । (यथा, कथासरित्सागरे । १३ । ३८ । “ततः स तत्पिता तेन तनयेन समं ययौ । द्वीपान्तरं स्नुषाहेतोर्बणिज्याव्यपदेशतः ॥”)