वाचस्पत्यम्
बद || भाषणे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । वादयति ते अवीषदत्—त । पक्षे बदतीत्यादि ।
वाचस्पत्यम्
बद || स्थैर्य्ये निश्चलभबले भ्वा० पर० सक० सेट् । बदति अवादीत् अबदीत् । बबाद बेदतुः ।
शब्दकल्पद्रुमः
बद is an alternate of वद. व(ब)द || इ ङ नुत्यभिवादयोः । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।)
अभिवादो नम- स्कारः । इ, वन्द्यते । ङ, वन्दते गुरुं लोकः । नमस्करोति स्तौति वा इत्यर्थः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
बद is an alternate of वद. व(ब)द || ऐ वाचि । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
ऐ, उद्यात् । इति दुर्गा- दासः ॥ (“क्विपि संवत् दन्त्योष्ठत्वात् पक्षे सानु- नासिको वकारः सँव्वत् यस्तु मन्यते नायं संप्रसारिणो वदेः प्रयोगः किन्तर्हि बद स्थैर्य्य इत्यस्य ओष्ठ्यबकारादेः तन्मते मकारवदपि सम्बदिति वर्णदेशना ।” इति मनोरमा ॥)
शब्दकल्पद्रुमः
बद || स्थैर्य्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।)
बदति पर्व्वतः । आबादीत् अबदीत् । हसादेः सेम इत्यादिना वा दीर्घः । व्रजवदेत्यादौ दन्त्यादिवदेरग्रहणादिति प्राञ्चः । इति दुर्गादासः ॥