वाचस्पत्यम्
ब(व)दरी || स्त्री ब(व)दर + गौरा० ङीष् । १ कोलिवृक्षे अमरः २ कार्पास्यां शब्दर० कपिकच्छ्वाम् राजनि० । ततः षील्क० पाके कुणच् । वदरीकुण तत्पाके न० ।
शब्दकल्पद्रुमः
बदरी || स्त्री (बदर + गौरादित्वात् ङीष् । बदरि + कृदिकारादिति पक्षे ङीष् वा ।)
कोलि- वृक्षः । इत्यमरः । २ । ४ । ३६ ॥ (अस्याः पर्य्यायो बदरशब्दे द्रष्टव्यः । यथा, भागवते । १ । ७ । ३ । “तस्मिन् स आश्रमे व्यासो बदरीखण्डमण्डिते ॥”)
कार्पासी । इति शब्दरत्नावली ॥ कपिकच्छुः । इति राजनिर्घण्टः ॥ (बदर्य्याः फलम् हरी- तक्यादिभ्यश्चेति विकारार्थस्य लुक् । बदरी- फलम् ॥)