वाचस्पत्यम्
बद्धशिख || त्रि० बद्धा शिखा येन यस्या वा । “सदोपवीतेन भाव्यं सदा बद्धशिखेन च” प्रा० त० उक्ते १ शिखावन्धन- युक्ते २ उच्चटायां स्त्री मेदि० ।
शब्दकल्पद्रुमः
बद्धशिखः || त्रि (बद्धा शिखा चूडा यस्येति ।)
शिशुः । इति मेदिनी । खे, १५ ॥ शिखाबन्धन- विशिष्टः । यथा, प्रायश्चित्ततत्त्वधृतवचनम् । “सदोपवीतिना भाव्यं सदा बद्धशिखेन तु । विशिखो व्युपवीतश्च यत् करोति न तत् कृतम् ॥”