वाचस्पत्यम्
ब(व)धूटी || स्त्री अल्पा ब(व)धूः अल्पार्थे टि वा ङीप् । अल्प- वयस्कायां नार्य्याम् “गोपबधूटीक्दुकूलचौराय” भाषाप० ।
शब्दकल्पद्रुमः
बधूटी || स्त्री (अल्पवयस्का बधूः । अल्पार्थे टीः । पक्षे ङीष् । यद्बा, बधू + “वयस्य- चरम इति वाच्यम् ।” ४ । १ । २० । इत्यस्य वार्त्ति० इति ङीप् ।)
पुत्त्रभार्य्या । इति भरत धृतरत्नकोषः । सुवासिनी । इति हेमचन्द्रः ॥ अल्पा बधूः । यथा, —
“नूतनजलधररुचये गोपबधूटीदुकूलचौराय । तस्मै नमः कृष्णाय संसारमहीरुहस्य बीजाय ॥” इति भाषापरिच्छेदः । १ ॥