वाचस्पत्यम्
बन्धक || न० बन्धे स्थापितं धनम् कन् । ऋणशोधार्थम् विश्वास- हेतुतया आधीकृते १ पदार्थे शब्दर० । स्वार्थे क । २ विनिमये पु० मेदि० । ३ रतहिण्डके नानार्थमाला । ४ पुंश्चल्यां स्त्री अमरः । ५ हस्तिन्यां मेदि० उभयत्र गौरा० ङीष् । ६ पञ्चपुरुषगामिन्यं स्त्रियाम् भा० आ० १२३ अ० ।
शब्दकल्पद्रुमः
बन्धकं || क्ली (बध्नातीति । बन्ध + ण्वुल् ।)
ऋणाय स्थापितं वस्तु । बाँधा इति भाषा । इति आधिशब्दनानार्थे अमरः ॥ इदानीमाधि- र्निरूप्यते । आधिर्नाम गृहीतस्य द्रव्यस्योपरि विश्वासार्थमधमर्णेनोत्तमर्णेऽधिक्रियते आधी- यत इत्याधिः । स च द्विधैव । कृतकालो- ऽकृतकालश्च । पुनश्चैकैकशो द्बिविधः गोप्यो भोग्यश्च । यथाह नारदः । “अधिक्रियत इत्याधिः स विज्ञेयो द्बिलक्षणः । कृतकालापनेयश्च यावद्देयोद्यतस्तथा ॥ स पुनर्द्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव चेति ॥” कृते काले आधानकाल एवामुस्मिन् काले दीपोत्सवादौ मयायमाधिर्मोक्तव्योऽन्यथा तवै- वाधिर्भविष्यतीत्येवं निरूपिते कालेऽपनेयः आत्मसमीपे नेतव्यो मोचनीय इत्यर्थः देयं दानं देयमनतिक्रम्य यावद्देयम् उद्यतो नियतः स्थापित इत्यर्थः । यावद्देयम् उद्यतो यावद्देयो- द्यतः गृहीतधनप्रत्यर्पणावधिरनिरूपितकाल इत्यर्थः । गोप्यो रक्षणीयः । एवञ्चतुर्विधस्या- धेर्विशेषमाह । “आधिः प्रणश्येत् द्बिगुणे धने यदि न मोच्यते । काले कालकृतो नश्येत् फलभोग्यो न नश्यति ॥” प्रयुक्ते धने स्वकृतया वृद्ध्या कालक्रमेण द्बिगुणी- भूते यद्याधिरधमर्णेन द्रव्यदानेन मोच्यते तदा नश्यत्यधमर्णस्य धनं प्रयोक्तुः स्वम्भवति । काल- कृतः कृतकालः आहिताग्न्यादिषु पाठात् काल- शब्दस्य पूर्ब्बनिपातः स तु काले निरूपिते प्राप्ते नश्येत् द्वैगुण्यात् प्रागूर्द्ध्वं वा । फलभोग्यः फलं भोग्यं यस्यासौ फलभोग्यः क्षेत्रारामादिः स न कदाचिदपि नश्यति । कृतकालस्य गोप्यस्य भोग्यस्य च तत्कालातिक्रमे नाश उक्तः । काले कालकृतो नश्येदिति । अकृतकालस्य भोग्यस्य नाशाभाव उक्तः फलभोग्यो न नश्यतीति पारिशेष्यादाधिः प्रणश्येदित्येतदकृतकालगोप्या- धिविषयमवतिष्ठते द्वैगुण्यातिक्रमेण निरूपित- कालातिक्रमेण च विनाशे चतुर्द्दशदिवसप्रती- क्षणं कर्त्तव्यं बृहस्पतिवचनात् । “हिरण्ये द्बिगुणीभूते पूर्णे काले कृतावधौ । बन्धकस्य धनी स्वामी द्बिसप्ताहं प्रतीक्ष्य च । तदन्तराधनं दत्त्वा ऋणी बन्धमवाप्नुयादिति ॥” किञ्च । “गोप्याधिभोगे नो वृद्धिः सोपकारेऽथ हापिते । नष्टो देयो विनष्टश्च दैवराजकृतादृते ॥” गोप्याधेस्ताम्रकटाहादेरुपभोगेन वृद्धिर्भवति । अल्पेऽप्युपभोगे महत्यपि वृद्धिर्हातव्या सम- यातिक्रमात् तथा सोपकारे उपकारकारिणि बलीवर्द्दताम्रकटाहादौ भोग्याधौ सवृद्धिके हापिते हानिं व्यवहाराक्षमत्वं गमिते नो वृद्धिरिति सम्बन्धः । नष्टो विकृतिं गतस्ताम्र- कटाहादिश्छिद्रभेदादिना पूर्ब्बवत्कृत्वा देयः तत्र गोप्याधिर्नष्टश्चेत् पूर्ब्बवत् कृत्वा देयः । उपभुक्तो- ऽपि चेत् वृद्धिरपि हातव्या भोग्याधिर्यदि नष्ट- स्तदा पूर्ब्बवत् कृत्वा देयः । वृद्धिसद्भावे वृद्धिर्वा हातव्या । विनष्ट आत्यन्तिकं नाशं प्राप्तः सोऽपि देयो मूल्यादिद्वारेण तद्दाने सवृद्धिकं मूल्यं लभते यदि न ददाति तदा मूलनाशः । ‘विनष्टे मूल- नाशः स्याद्दैवराजकृतादृते ।’ इति नारदवच- नात् । दैवराजकृतादृते । दैवमग्न्युदकदेशो- पप्लवादि । दैवकृताद्बिनाशाद्विना । तथा स्वाप- राधरहिताद्राजकृतात् । दैवराजकृते तु विनाशे सवृद्धिकं मूल्यं दातव्यमधमर्णेनाध्यन्तरं वा यथाह । “स्रोतसापहृते क्षेत्रे राज्ञा चैवापहारिते । आधिरन्योऽथ कर्त्तव्यो देयं वा धनिने धनमिति ॥” तत्र स्रोतसापहृत इति दैवकृतोपलक्षणम् । अपि च । “आधेः स्वीकरणात् सिद्धी रक्ष्यमाणोऽप्यसार- ताम् । यातश्चेदन्य आधेयो धनभाग्वा धनी भवेत् ॥ आधेर्गोप्यस्य भोग्यस्य च स्वीकरणादुपभोगा- दाधिग्रहणसिद्धिर्न साक्षिलिखनमात्रेण नाप्यु- द्देशमात्रेण यथाह नारदः । “आधिस्तु द्विविधः प्रोक्तो जङ्गमः स्थावरस्तथा । सिद्धिरस्योभयस्यापि भोगो यद्यस्ति नान्यथा ॥” अस्य च फलम् । “आधौ प्रतिग्रहे क्रीते पूर्ब्बा तु बलवत्तरेति ।” या स्वीकारान्ता क्रिया सा पूर्ब्बा बलवती स्वीकाररहिता तु पूर्ब्बापि न बलवतीति स चाधिः प्रयत्नेन रक्ष्यमाणोऽपि कालवशेन यद्य- सारतामविकृत एव सवृद्धिकमूल्यद्रव्यापर्य्याप्ततां गतस्तदाधिरन्यः कर्त्तव्यः । धनिने वा धनं देयं रक्ष्यमाणोऽप्यसारतामिति वदता आधिः प्रय- त्नेन रक्षणीयो धनिनेति ज्ञापितम् । आधिः प्रणश्येद्द्विगुण इत्यस्यापवादमाह । “चरित्रबन्धककृतं सवृद्ध्या दापयेद्धनम् । सत्यङ्कारकृतं द्रव्यं द्बिगुणं प्रतिदापयेत् ॥” चरित्रं शोभनाचरितम् । चरित्रेण बन्धकं चरित्रबन्धकम् । तेन यत् द्रव्यमात्मसात् कृतं पराधीनं वा कृतम् । एतदुक्तं भवति धनिनः स्वच्छाशयत्वेन बहुमूल्यमपि द्रव्यमाधीकृत्या- धमर्णेनाल्पमेव द्रव्यमात्मसात् कृतम् । यदि वाध- मर्णस्य स्वच्छाशयत्वेनाल्पमूल्यमाधिं गृहीत्वा बहुद्रव्यमेव धनिनाधमर्णाधीनं कृतमिति तद्धनं नृपो वृद्ब्या सह दापयेत् अयमाशयः एवंरूपं बन्धकं द्बिगुणीभूतेऽपि द्रव्ये न नश्यति किन्तु द्रव्यमेव द्बिगुणं दातत्वमिति । तथा सत्यङ्कार- कृतं करणं कारः भावे घज् सत्यस्य कारः सत्यङ्कारः कारे सत्यागदस्येति मुम् सत्यङ्कारेण कृतं सत्यङ्कारकृतम् । अयमभिसन्धिः । यदा बन्धकार्पणसमय एव इत्थं परिभाषितं द्विगुणी- भूतेऽपि द्रव्ये मया द्विगुणं द्रव्यमेव दातव्यम् । नाधिनाश इति तदा तद्द्विगुणं दापयेदिति । अन्योऽर्थः । चरित्रशब्देन गङ्गास्नानाग्नि- होत्रादिजनितमपूर्ब्बमुच्यते यत्र तदेवाधी- कृत्य यत् द्रव्यमात्मसात् कृतम् । तत्र तदेव द्बिगुणीभूतं दातव्यं नाधिनाश इति । आधि- प्रसङ्गादन्यदुच्यते । सत्यङ्कारकृतमिति क्रय- विक्रयादिव्यवस्थानिर्व्वाहणाय यद्यङ्गुलीयकादि- परहस्ते कृतं तद्ब्यवस्थातिक्रमे द्विगुणं दातव्यं तत्रापि येनाङ्गुलीयकाद्यर्पितं स एव चेद्ब्यव- स्थातिवर्त्ती तेन तदेव हातव्यम् । इतरश्चेद्व्यव- स्थातिवर्त्ती तदा तदेवाङ्गुलीयकादिद्बिगुणं प्रति- दापयेदिति । किञ्च । “उपस्थितस्य मोक्तव्य आधिः स्तेनोऽन्यथा भवेत् । प्रयोजकेऽसति धनं कुलेऽन्यस्याधिमाप्नुयात् ॥” धनदानेनाधिमोक्षणायोपस्थितस्याधिर्मोक्तव्यो धनिना वृद्धिलोभेन न स्थापयितव्यः । अन्यथा अमोक्षणे स्तेनश्चौरवद्दण्ड्यो भवेत् असन्निहिते पुनःप्रयोक्तरि कुले तदाप्तहस्ते सवृद्धिकं धनं निधायाधमर्णः स्वीयं बन्धकं गृह्णीयात् । अथ प्रयोक्ताप्यसन्निहितस्तदाप्ताश्च धनस्य ग्रहीतारो न सन्ति यदि वा असन्निहिते प्रयोक्तरि आधि- विक्रयेण धनदित्साधमर्णस्य तत्र किं कर्त्तव्य- मित्यपेक्षित आह । “तत्कालकृतमूल्यो वा तत्र तिष्ठेदवृद्धिकः ।” तस्मिन् काले यत्तस्याधेर्मूल्यं तत् परिकल्प्य तत्रैव धनिनि तमाधिं वृद्धिरहितं स्थापयेन्न तत ऊर्द्ध्वं धनं वर्द्धते यावद्धनी धनं गृहीत्वा तमाधिं मुञ्चति यावद्वा तन्मूल्यद्रव्यमृणिने प्रवेशयति । यदा तु द्बिगुणीभूतेऽपि धने द्बिगुणं घनमेव ग्रहीतव्यं न त्वाधिनाश इति विचारितमृण- ग्रहणकाल एव तदा द्विगुणीभूते द्रव्ये असन्नि- हिते वाधमर्णे धनिना किं कर्त्तव्यमित्यत आह । “विनाधारणकाद्वापि विक्रीणीत ससाक्षिकम् ।” धारणकादधमर्णाद्विना अधमर्णे असन्निहिते साक्षिभिस्तदाप्तैश्च सह तमाधिं विक्रीय तद्धनं गृह्णीयाद्धनी वाशब्दो व्यवस्थितविकल्पार्थः । यदर्णग्रहणकाले द्बिगुणीभूतेऽपि धने धनमेव ग्रहीतव्यं न त्वाधिनाश इति न विचारितम् । तदा आधिः प्रणश्येद्द्विगुण इत्यस्याधिनाशः । विचारिते त्वयं पक्ष इति ॥ * ॥
भोग्याधौ विशेषमाह । “यदा तु द्विगुणीभूतमृणमाधौ तदा खलु । मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥” यदा प्रयुक्तं धनं स्वकृतया वृद्ध्या द्बिगुणीभूतं तदाधौ कृते तदुत्पन्ने आध्युत्पन्ने द्बिगुणे धनिनः प्रविष्टे धनिनाधिर्मोक्तव्यः । यदि वादावेवाधा दत्ते द्विगुणीभूते द्रव्ये त्वयाधिर्मोक्तव्य इति परि- भाषया कारणान्तरेण वा भोगाभावेन तदा द्विगुणीभूतमृणन्तदाधौ भोगार्थं धनिनि प्रविष्टे तदुत्पन्ने द्रव्ये द्विगुणे सत्याधिर्मोक्तव्यः । अधि- कोपभोगे तदपि देयम् । सर्व्वथा सवृद्धिकमूल्य- र्णापाकरणार्थाध्युपभोगविषयमिदं वचनम् । तमेनं क्षयाधिमाचक्षते लौकिकाः यत्र तु वृद्ध्यर्थ एवाध्युपभोग इति परिभाषा तत्र द्वैगुण्यातिक्रमेऽपि यावन्मूल्यदानं तावदुप- भुड्क्ते एवाधिम् एतदेव स्पष्टीकृतं बृहस्पतिना “ — ऋणी बन्धमवाप्नु यात् । फलभोग्यं पूर्णकालं दत्त्वा द्रव्यञ्च सामकम् ॥ यदि प्रकर्षितं तत् स्यात्तदा न धनभाग्धनी । ऋणी च न लभेद् बन्धं परस्परमतं विना ॥” अस्यार्थः । फलं भोग्यं यस्यासौ फलभोग्यो बन्ध आधिः स च द्बिविधः सवृद्विकमूल्यापाकरणार्थो वृद्धिमात्रापाकरणार्थश्च तत्र च वृद्धिमूल्यापा- करणार्थं बन्धं पूर्णकालं पूर्णः कालो यस्यासौ पूर्णकालस्तमाप्नु यादृणी । यदा सवृद्धिकं मूल्यं फलद्बारेण धनिनः प्रविष्टन्तदा बन्धमवाप्नुयादि- त्यर्थः वृद्धिमात्रापाकरणार्थन्तु बन्धं सामकं दत्त्वाप्नुयादृणी । समं मूल्यं सममेव सामकम् । अस्यापवादमाह । यदि प्रकर्षितं तत् स्यात्त- द्बन्धकं प्रकर्षितमतिशयितं वृद्धेरभ्यधिकफलं यदि स्यात्तदा न धनभाग्धनी । सामकं न लभेद्बन्धं मूल्यमदत्त्वैवर्णी बन्धमवाप्नुयादिति यावत् । अथाप्रकर्षितं तद्बन्धकं वृद्धयेऽप्य- पर्य्याप्तन्तदा सामकं दत्त्वापि बन्धं लभेताधमर्णः वृद्धिशेषमदत्त्वैव लभेतेत्यर्थः । पुनरुभयत्राप- वादमाह । परस्परमतं विना उत्तमर्णाध- मर्णयोः परस्परानुमत्यभावे यदि प्रकर्षितं इत्याद्युक्तम् । परस्परानुमतौ तूत्कृष्टमपि बन्धकं यावन्मूल्यदानन्तावदुपभुङ्क्ते धनी निकृ- ष्टमपि मूलमात्रदाने नैवाधमर्णो लभते । इति- मिताक्षरा ॥
शब्दकल्पद्रुमः
बन्धकः || पुं, (बन्ध + स्वार्थे कन् ।)
विनिमयः । इति विश्वमेदिन्यौ ॥ आधिः । इति शब्दरत्ना- वली ॥ रतहिण्डकः । इति नानार्थरत्नमाला ॥ (बध्नातीति । बन्ध + ण्वुल् । बन्धनकर्त्तरि, त्रि । यथा, देवीभागवते । ५ । १ । ३९ । “न नारी न धनं गेहं न पुत्त्रा न सहोदराः । बन्धनं प्राणिनां राजन्नहङ्कारस्तु बन्धकः ॥”)