वाचस्पत्यम्
बन्धन || न० बन्ध—भावे ल्युट् । १ निगडादिन २ संयमने अमरः ३ बवे मेदि० । करणे ल्युट् । ३ तद्धेतौ रज्ज्वो । हेमच०
शब्दकल्पद्रुमः
बन्धनं || क्ली (बन्ध + भावे ल्युट् ।)
बन्धनक्रिया । बाँधा इति भाषा । तत्पर्य्यायः । उद्दानम् २ । इत्यमरः । २ । ८ । २६ ॥ कङ्कनम् ३ बन्धः ४ संयमनम् ५ । इति शब्दरत्नावली ॥ (यथा, हितोपदेशे । १ । ९५ । “आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् । मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥”)
वधः । इति मेदिनी । ने, ९७ ॥ हिंसा । इति शब्दरत्नावली ॥ रज्जुः । इति हेम- चन्द्रः ॥ बध्यतेऽनेनेति करणव्युत्पत्त्या त्रि ॥ (बध्यतेऽस्मिन् इति अधिकरणे ल्युट् । कारा- गारम् । बन्धनस्थानम् । यथा, भागवुते । ३ । २ । २५ । “वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने ॥” बन्ध + कर्त्तरि ल्युः । महादेवस्य नामभेदे, पुं । यथा, महाभारते । १३ । १७ । १०० । “बन्धनो बन्धकर्त्ता च सुबन्धनविमोचनः ॥” बन्धनकर्त्तरि, त्रि । यथा, तत्रैव । १३ । १७ । ६१ । “बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः ॥”)