संस्कृत-शब्दकोशः

बन्धुदत्तम् बन्धुरा

बन्धुर

वाचस्पत्यम्

बन्धुर ||‍ न० बन्ध—उरच् । १ मुकुटे शब्दर० २ स्त्रीचिह्ने ३ तिल- कल्के ४ बन्धुजीववृक्षे ५ बधिरे ६ हंसे च मेदि० ७ बिडङ्गे हेमच० । ८ ऋषभौषधौ राजनि० ९ वके द्विहङ्गे च पु० शब्दर० । १० रम्ये ११ नम्रे १२ वेश्यायां स्त्री १३ सक्तुषु पु० ब० व मेदि० । १४ उन्नतानते च त्रि० अमरः पाठान्तरम् ।


शब्दकल्पद्रुमः

बन्धुरं || क्ली (बन्ध बन्धने + “मद्गुरादयश्च ।” उणा० १ । ४२ । इति उरप्रत्ययेन निपातनात् साधुः ।)
मुकुटम् । इति शब्दरत्नावली ॥ (रथ- बन्धनम् । यथा, महाभारते । ३ । ३२ । ३१ । “अन्ये छत्रं वरूथञ्च बन्धुरञ्च तथापरे । गन्धर्व्वा बहुसाहस्रास्तिलशो व्यधमन्रथम् ॥” तथा च भागवते । ४ । २६ । १ । “द्वीषं द्बिचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् ॥”)


शब्दकल्पद्रुमः

बन्धुरः || त्रि (बन्ध + उर ।)
रम्यम् । (यथा, महा- गणपतिस्तोत्रे । १५ । “श्रेयः स्थेयः स देयान्मम विमलदृशो बन्धुरं सिन्धुरास्यः ॥”)
नम्रम् । इति मेदिनी । रे, १८९ ॥ उन्नता- नतम् । इत्यमरः ॥ (यथा, रघुः । १३ । ४७ । “बध्नाति मे बन्धुरगात्रि ! चक्षु- र्दृप्तः ककुद्मानिव चित्रकूटः ॥”)


शब्दकल्पद्रुमः

बन्धुरः || पुं, (बन्ध + “मद्गुरादयश्च ।” उणा० १ । ४२ । इति उरः निपातनात् साधुः ।)
स्त्रीचिह्नम् । तिलकल्कम् । बन्धूकः । वधिरः । हंसः । इति मेदिनी । रे, १८९ ॥ विडङ्गः । इति हेमचन्द्रः ॥ ऋषभौषधम् । इति राजनिर्घण्टः ॥ बकः । विहङ्गः । इति शब्दरत्नावली ॥



Correction: