शब्दकल्पद्रुमः
बन्धुलः || त्रि (बन्धून् लाति स्नेहेन गृह्णातीति । बन्धु + ला + क ।)
सुन्दरः । नम्रः । इत्यजय- पालः ॥
शब्दकल्पद्रुमः
बन्धुलः || पुं, (बन्धुं लातीति । बन्धु + ला + क ।)
असतीसुतः । इत्यमरः । २ । ६ । २६ ॥ (यथा, मृच्छकटिकनाटके चतुर्थे अङ्के । “परगृहललिताः परान्नपुष्टाः परपुरुषैर्जनिताः पराङ्गनासु । परधननिरता गुणेष्ववाच्या गजकलभा इव बन्धुला नमामः ॥”)
बन्धूकः । इति शब्दरत्नावली ॥