संस्कृत-शब्दकोशः

बन्धूकपुष्प बन्धूलि

बन्धूर

वाचस्पत्यम्

बन्धूर ||‍ पु० बन्धू—ऊरच् । १ छिद्रे उणा० । २ रम्ब्ये ३ नम्रे च त्रि० रभसः ४ उन्नतानते क्वचिदुन्नते क्वचिच्च नते त्रि० अमरः ।


शब्दकल्पद्रुमः

बन्धूरः || त्रि (बन्ध + खर्ज्जूरादित्वादूरप्रत्ययः ।)
रम्यः । नम्रः । यथा, रभसे । “बन्धूरबन्धुरौ रम्ये नम्रे हंसे तु बन्धुरः ॥” उन्नतानतम् । स्वभावात् यदुन्नतं उपाधि- वशादीषन्नतं तत् । क्वचिदुन्नतं क्वचिदानतं स्थलादिकम् । इति केचित् । इत्यमरटीकायां भरतः ॥


शब्दकल्पद्रुमः

बन्धूरः || पुं, (बन्ध बन्धने । बन्ध + “मद्गुरादयश्च ।” उणा० १ । ४२ । इत्यत्र खर्ज्जूरादित्वादूरप्रत्य- येन सिद्धम् इत्युज्ज्वलदत्तः ।)
विवरम् । इत्यु- णादिकोषः ॥



Correction: