वाचस्पत्यम्
बन्ध्य || त्रि० बन्ध—यत् । कालप्राप्तावषि १ फलशून्ये वृक्षे अमरः । २ निष्फले राजनि० “अबन्ध्यकोपस्य निहन्तु- रापटाम्” किरा० । ३ बन्धनीये च त्रि० । ४ अपुत्रायां स्त्रीजातौ स्त्री शबदच० । ५ बालाख्ये बन्धद्रव्ये स्त्री मेदि० । प्रा० वि० बन्ध्यायाः वृषलीत्वमुक्तं यथा “बन्ध्या च वृषली ज्ञेया वृषली च रजस्वला । अथ वा वृषली ज्ञेया कुमारी यां रजस्वला” ६ योनिरोगभेदे स्त्री भावप्र० । ४५४७ पृ० पित्तलशब्दे परिशिष्टे दृश्यम् ।
शब्दकल्पद्रुमः
बन्ध्यः || त्रि (बन्ध + यक् ।)
ऋतुप्राप्तावधिफल- रहितवृक्षादिः । (यथा, रघुः । १ । ७० । “सिक्तं स्वयमिव स्नेहाद्बन्ध्यमाश्रमपादपम् ॥”)
तत्पर्य्यायः । अफलः २ अवकेशी ३ । इत्यमरः । २ । ४ । ७ ॥ विफलः ४ निष्फलः ५ । इति राजनिर्घण्टः ॥ बन्धनीयः । इति बन्धधातोः कर्म्मणि यप्रत्ययः ॥ (यथा, याज्ञवल्क्यः । २ । २४६ । “अबन्ध्यं यश्च बध्नाति बद्धं यश्च प्रमुञ्चति ॥” पुं, निवर्त्तितवारिः सेतुः । यथा, मिताक्षरायाम् । “सेतुश्च द्बिविधो ज्ञेयः खेयो बन्ध्यस्तथैव च । तोयप्रवर्त्तनात् खेयो बन्ध्यः स्यात्तन्निवर्त्तनात् ॥”)