बर्ब
बर्बटी
बर्बट
वाचस्पत्यम्
बर्बट || पु० बर्ब—अटन् । १ राजमाषे (बरबटी) त्रिका० । गौरा० ङीष् । २ तत्रैव व्राहौ ३ षेश्यायाञ्च स्त्री मेदि० ।
शब्दकल्पद्रुमः
बर्ब्बटः || पुं, (बर्ब्ब + अटन् ।)
राजमाषः । इति त्रिकाण्डशेषः ॥ बर्ब्बटी इति ख्यातः ॥ (विवृति- रस्या राजमाषशब्दे ज्ञेया ॥)