बर्हिष्य
बल
बर्हिस्
वाचस्पत्यम्
बर्हिस् || न० बर्ह—कर्मणि इसि । कुशे १ यज्ञिये कुशे “निहोता सत्सि बर्हिषि” सामार्चिकम् १११ “उपमूललूतं बर्हिः पितॄणां पर्बसु लूनं देवासाम्” कौ० त० । प्राचीनबर्हिस्शब्दे दृश्यम २ दीप्तौ ३ अग्नौ च “बर्हिपि रजतं न देयम्” श्रुतिः ।