संस्कृत-शब्दकोशः

बर्हिस् बलक्ष

बल

वाचस्पत्यम्

बल ||‍ जीबने, धान्यावरोधे च भ्वा० पर० सक० सेट् । बलवि । अबालीत् बेलतुः । ज्ववादि० कर्त्तरि ण । बलः बालः ।

वाचस्पत्यम्

बल ||‍ जीवने चु० उभ० अक० सेट् । मित् घटा० । बलयति—ते अबीबलत् त ।

वाचस्पत्यम्

बल ||‍ दाने बधे निरूपणे च भ्वा० उभ० सक० सेट् । बलति—ते अबालीत् अबलिष्ट । बेलतुः बेले ।

वाचस्पत्यम्

बल ||‍ न० बल—अच् । १ सैन्ये २ देहजे सामर्थ्ये ३ स्थौल्ये ४ गन्धरसे ५ रूपे मेदि० ६ शुक्रे हेमच० ७८ देहे जटा० ८ पल्लवे शब्दर० ९ रक्ते च शब्दच० । १० बलवुक्ते त्रि० मेदि० ११ काके १२ बलदेवे अमरः । १३ वरुणवृक्षे शब्दच० । १४ दैत्यभेदे पु० मेदि० । तत्र पारिभापिकबलानि ब्रह्मवैपु० ३५ अ० उक्तानि यथा ||‍“क्षत्रियाणां बलं युद्धं व्यापारश्च बलं विशाम् । भिक्षाबलं भिक्षुकाणां शूद्राणां बिप्रसेवनम् । हरौ भक्तिर्हरेर्दास्यं वैष्णवानां बलं हरिः । हिंसा बलं स्वलानाञ्च तपस्या च तपस्विनाम् । बलं वेशश्च वेश्यानां योषितां यौवनं बलम् । बलं प्रतापो भूपानां बालानां रुदितं बलम् । सतां सत्यं बलं, मिथ्या बल- मेवासतां सदा । अमुगानामनुगमः स्वल्पस्वानाञ्च स- ञ्चयः । विद्या बलं पण्डितानां बाणिज्यं बणिजां बलम् । शश्वत्सुकर्मशीलानां गाम्भीर्य्यं साहसं बलम् । धनं बलं च धनिनां शुचीनां शौचमेव च । बलं विवेकः शान्तानां गुणिनां बलगेकता । गुणो बलं च सुणिनां चौराणां चौर्य्यमेव च । विप्रलम्भश्च कापट्यमधर्ममृणिनां बलम् । हिंसा च हिस्र- जन्तूनां सतीनां प्रतिसेवनम् । वरशापौ सुराणाञ्च शिष्याणां गुरुसेवनम् । बलं धर्मो गृहस्थानां भृत्यानां राजसेवनम् । बलं स्तवः स्तावकानां ब्रह्म च ब्रह्म- चारिणाम् । यतीनाञ्च सदाचारो न्यासः सन्न्यासिनां बलम् । पापं बलं पातकिनां सुभक्तानां हरिर्बलम् । पुण्यं बलं पुण्यवतां प्रजानां नृपतिर्बलम् । फलं बलञ्च वृक्षाणां जलधीनां जलं बलम् । जल बलञ्च शस्यानां मत्स्यानाञ्च जलं बलम् । शान्तिर्बलञ्च भूपानां विप्राणाञ्च विशेषतः” । “विद्याभिजनमित्राणि बुद्धिसत्त्व धनानि च । तपःसहायबीर्य्याणि दैवञ्च दशमं बलम्” भा० शा० । बैद्यके सद्योबलकरपदार्था संगृह्य दर्शिता यथा “सद्यो बलकरं ज्ञेयं बालाभ्यङ्गः सुभोजनम् । सद्यो बलकरं ज्ञेयं सर्पिश्च मांसमप्युत” । “धातूनां यत् परं तेजस्ततखल्वोजस्तदेव बलमित्यु चते” वैद्य० वायु- दत्ते १५ स्कन्दानुचरभेदे पु० । “बलञ्चातिबलञ्चैव सहा- बक्त्रौ सहाबलौ” भा० श० २५ । ३६ श्लो० । असुरभेदश्च इन्द्रेण हतः इन्द्रपर्य्याये बलारातिशब्ददर्शनात्” देवीपु० ४७ अ० तु स विष्णुना हत “तदा दत्ता तनुस्तेन दानवेन महत्मना । विष्णुनापि स्वचक्रेण शिरस्यभिहतो बलः । प्राकृतं देहमुत्सृज्य दिव्यकायस्त्वभूत्तदा । तस्या- वयवसंजाता बज्राद्या रत्नजातयः । लोचने सुर तेजांसि पद्मरागाणि चाभवन् । विशुद्धपात्रदानेन कायो रत्ना- करोऽभवत्” ।

वाचस्पत्यम्

बल ||‍ निरूपणे चु० आत्म० सक० सेट् । बालयते अबीबलत ।

शब्दकल्पद्रुमः

ब(व)लं || क्ली (बलते विपक्षान् हन्तीति । बल + पचा- द्यच् ।)
सैन्यम् । (यथा, भगवद्गीतायाम् । १ । १० । “अपर्य्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्य्याप्तन्त्विदमेतेषां बलं भीमाभिरक्षितम् ॥”)
स्थौल्यम् । सामर्थ्यम् । अत्र शेषस्य पर्य्यायः । द्रविणम् २ तरः ३ सहः ४ शौर्य्यम् ५ स्थाम ६ शुष्मम् ७ शक्तिः ८ पराक्रमः ९ प्राणः १० । इत्यमरः । २ । ८ । १०२ ॥ महः ११ शूष्म १२ । इति शब्दरत्नावली ॥ ऊर्ज्जः १३ । इति जटाधरः ॥ तद्वैदिकपर्य्यायः । ओजः १ पा(वा)जः २ शवः ३ तरः ४ तवः ५ त्वक्षः ६ शर्द्धः ७ बाधः ८ नृम्णम् ९ तविषी १० शुष्मम् ११ शुष्णम् १२ शूषम् १३ दक्षः १४ वीळुः १५ च्यौत्नम् १६ सहः १७ यहः १८ वधः १९ वर्गः २० वृजनम् २१ वृक् २२ मज्मना २३ पौंस्यानि २४ धर्णसिः २५ द्रविणम् २६ स्यन्द्रासः २७ शम्बरम् २८ । इत्यष्टाविंशतिर्ब्बलनामानि । इति वेदनि- घण्टौ । २ । ९ ॥ (यथा, मनुः । २ । ५५ । “पूजितं ह्यशनं नित्यं बलमूर्जञ्च यच्छति ॥”)
तत्तु गर्भस्थबालकस्य षष्ठे मासि भवति । इति सुखबोधः ॥ गन्धरसः । रूपम् । इति मेदिनी । ले, ३७ ॥ शुक्रम् । इति हेमचन्द्रः । ३ । २९३ ॥ (यथाह सुश्रुतः । “धातूनां यत्परं तेजस्तत् खल्वोज स्त्रदेव बलमित्युच्यते ॥”)
वपुः । इति जटाधरः ॥ (यथा, रामायणे । ७ । १ । ३३ । “कीदृशो वै प्रभावोऽस्य किं बलं कः परा- क्रमः ॥”)
पल्लवम् । इति शब्दरत्नावली ॥ रक्तः । इति शब्दचन्द्रिका ॥ (बलमस्यास्तीति । बल + अर्श आद्यच् ।)
बलयुक्ते, त्रि । इति मेदिनी ॥ * ॥
सद्योबलकराणि बलहराणि च यथा, —
“सद्योबलकरास्त्रीणि बालाभ्यङ्गं सुभोजनम् । सद्योबलहरास्त्रीणि अध्वानं मैथुनं ज्वरः ॥” बलकारकौषधं यथा, गारुडे । ११५ । १९६ अः । “शिवामलकचूर्णं वै मधुना उदकेन वा । बलानि कुर्य्यान्नासाया प्रत्युषे भक्षणं शिव ! ॥” पारिभाषिकबलानि । यथा, —
“विद्याभिजनमित्राणि वृद्धिसत्त्वधनानि च । तपःसहायवीर्य्याणि दैवञ्च दशमं बलम् ॥” इति महाभारते आपद्धर्म्मः ॥ अपि च । “अबलस्य बलं राजा बालस्य रुदितं बलम् । बलं मूर्खस्य मौनन्तु तस्करस्यानृतं बलम् ॥” * ॥
अपि च । “क्षत्त्रियाणां बलं युद्धं व्यापारश्च बलं विशाम् । भिक्षा बलं भिक्षुकाणां शूद्राणां विप्रसेवनम् ॥ हरौ भक्तिर्हरेर्दास्यं वैष्णवानां बलं हरिः । हिंसा बलं खलानाञ्च तपस्या च तपस्विनाम् ॥ बलं वेशश्च वेश्यानां योषितां यौवनं बलम् । बलं प्रतापो भूपानां बालानां रुदितं बलम् ॥ सतां सत्यं बलं मिथ्या बलमेवासतां सदा । अनुगानामनुगमः स्वल्पस्वानाञ्च सञ्चयः ॥ विद्या बलं पण्डितानां बाणिज्यं बणिजां बलम् । शश्वत्सुकर्म्मशीलानां गाम्भीर्य्यं साहसं बलम् ॥ धनं बलञ्च धनिनां शुचीनाञ्च विशेषतः । बलं विवेकः शान्तानां गुणिनां बलमेकता ॥ गुणो बलञ्च गुणिनां चौराणाञ्चौर्य्यमेव च । विप्रवाक्यञ्च कापट्यमधर्म्ममृणिनां बलम् ॥ हिंसा च हिंस्रजन्तूनां सतीनां पतिसेवनम् । वरशापौ सुराणाञ्च शिष्याणां गुरुसेवनम् ॥ बलं धर्म्मो गृहस्थानां भृत्यानां राजसेवनम् । बलं स्तवः स्तावकानां ब्रह्म च ब्रह्मचारिणाम् ॥ यतीनाञ्च सदाचारो न्यासः सन्न्यासिनां बलम् । पापं बलं पातकिनां सुभक्तानां हरिर्बलम् ॥ पुण्यं बलं पुण्यवतां प्रजानां नृपतिर्बलम् । फलं बलञ्च वृक्षाणां जलधीनां जलं बलम् ॥ जलं बलञ्च शस्यानां मत्स्यानाञ्च जलं बलम् । शान्तिर्बलञ्च भूपानां विप्राणाञ्च विशेषतः ॥” इति ब्रह्मवैवर्त्ते गणेशखण्डे ३५ अध्यायः ॥

शब्दकल्पद्रुमः

ब(व)लः || पुं, (बलते निरूपयति स्वेष्टमिति । बल + अच् । बलदेवपक्षे नामैकदेशग्रहणाच्चापि सिध्यति भीमादिवत् ।)
काकः । (यथा, महा- भारते । ७ । ६ । २५ । “गृध्राः श्वेना बलाः कङ्का वायसाश्च सहस्रशः ॥”)
बलदेवः । इत्यमरः ॥ (यथा, भागवते । ४ । ५ । १९ । “पूष्णो ह्यपातयत् दन्तान् कलिङ्गस्य यथा बलः ॥”)
अस्य पत्न्यादीनां नामानि यथा, —
“रेवतीं नाम तनयां रेवतस्य महीपतेः । उपयेमे बलस्तस्यां जज्ञाते निशठोल्मकौ ॥” इति विष्णुपुराणे । ५ । २५ । १९ ॥ वरुणवृक्षः । इति शब्दचन्द्रिका ॥ (वायुना प्रदत्तः कार्त्तिकेयानुचरभेदः । यथा, महा- भारते । ९ । ४५ । ४२ । “बलञ्चातिबलञ्चैव महावक्त्रौ महाबलौ । प्रददौ कार्त्तिकेयाय वायुर्भरतसत्तम ! ॥” रामपुत्त्रस्य कुशस्यान्वये जातस्य पारियात्रस्य पुत्त्रविशेषः । यथा, भागवते । ९ । १२ । २ । “देवानीकस्ततोऽनीहः पारियात्रोऽथ तत्सुतः । ततो बलः स्थलस्तस्माद्वज्रनाभोऽर्कसम्भवः ॥” दनायुषः पुत्त्रविशेषः । यथा, महाभारते । १ । ६५ । ३३ । “दनायुषः पुनः पुत्त्राश्चत्वारोऽसुरपुङ्गवाः । विक्षयो बलवीरौ च वृत्रश्चैव महामुरः ॥” मेघः । इति निघण्टुः । १ । १० ॥)
दैत्य- विशेषः । इति मेदिनी । ले, ३७ ॥ तस्य विवरणं यथा, —
“आसीद्दैत्यो बलो नाम महाबलपराक्रमः । देवगन्धर्व्वयक्षाणां चन्द्रेन्द्रभयकारकः ॥ येन विष्णुर्यमः सूर्य्यो भग्न आजौ प्रपीडिताः । अनिलानलरक्षश्च वरुणश्च वशीकृताः ॥ संयम्य येन नागेन्द्रा महाभोगा महाविषाः । गरुडश्च कृतो भृत्यः सदाज्ञामभिवर्त्तिनः ॥ येन संलिख्य शैलेन्द्रः कन्दुकाकारकारितः । क्रीडार्थं येन विप्रेन्द्र ! गिरयः प्रथिता भुवि ॥ तेन देवाः सब्रह्माद्या दिवः सर्व्वे पलायिताः । दत्तं स्थानन्तु पातालं समयं शरदां शतम् ॥ तथा ते भयमापन्ना मानं त्यक्त्वा गता गुरुम् । पृच्छन्ति विनयात् सर्व्वे शक्रस्य हितकारिणः ॥ केनोपायेन देवानां स्वर्गवासो भवेद्द्विज ! । भवान् हि नयवेत्ता च उपायं वद पृच्छताम् ॥ त्वमेव शास्त्रवेत्ता च हितः शक्रस्य नित्यशः । शङ्कोदधिनिमग्नानामतिपोतो भव द्विज ! ॥ एवं पृष्टः स देवैस्तु गुरुर्व्वचनमब्रवीत् ॥ बृहस्पतिरुवाच । यदयं दानवः शक्र ! न युद्धे भवतो वशः । रणे न क्षयमायाति अजेयः सङ्गरे यतः ॥ अतः कपटमास्थाय प्रार्थनीयः क्रतुं प्रति । दाता सत्त्वबलोपेतः स्वकायमर्थितेष्वपि ॥ अतस्तस्य प्रार्थयिता विष्णुर्म्मायामहोदधिः । द्बिजरूपधरो भूत्वा याचनाय वधाय च ॥ गुरुणा चोदिता देवाः स्तुतास्ते निधनम्प्रति । गताः सर्व्वे ततः शान्ता यत्र देवो जनार्द्दनः ॥ माधवेन तदा देवा दृष्टा भयसमाकुलाः । क्रमार्घ्यासनसंलापैः सर्व्वे ते संस्तुतां भृशम् ॥ संपृच्छितास्तदा सर्व्वे किमायातावदन् सुराः ॥ देवा ऊचुः । बलेन बलिना देव ! सर्व्वे षित्रासिता वयम् । मायावी त्वं वधे तस्य नान्योपायो भवेत् क्वचित् ॥ षिष्णुरुवाच । करोमि भवतामिष्टं किन्त्वसौ बलसंयुतः । सात्विको नयवेत्ता च सर्व्वशास्त्रार्थपारगः ॥ गूढमन्त्रविचारी स्याद्धर्म्मैककृतनिश्चयः । तस्य मायां कथं कर्त्तुं शक्यते सुरसत्तमाः ॥ पुरैका भवते विद्या मम दत्ता तु शूलिना । मोहिनी नाम विख्याता मोहं सा कुरुते भृशम् ॥ ततोऽहं तस्य नाशाय स्मरामि परमेश्वरीम् । स्मरित्वा परमां विद्यां द्बिजभावो जनार्द्दनः ॥ मध्यकायसुवेशश्च वेदपाठी सविष्टरः । परिग्राही हुताशस्य क्षपयन्नो व्रजेद्यजेत् ॥ यज्ञार्थं याचनां कस्य करोमि कथ्यतां मम । तं दृष्ट्वा सूर्य्यतेजाभमुक्तो विप्रैर्व्रजन् स च ॥ बलस्ते यज्ञनिष्पत्तिं करोति द्विजसत्तम ! । हेमकूटे महाशैले तिष्ठते दानवोत्तमः ॥ सर्व्वज्ञोऽपि महामायी वञ्चनाय तदा गतः । मोहिनीं जपमानस्तु विद्यां परमसिद्धिदाम् ॥ विचित्रं दनुराजस्य पुरं सर्व्वपुरोत्तमम् । प्राविशद्वेदं वेदात्मा पठमानो जनार्द्दनः ॥ दानवन्तु पुरं रम्यं जानासि त्वं ग्रहोत्तम ! । द्वारं गतोऽसुरेन्द्रस्य कुर्य्यां प्राध्ययनं तदा ॥ द्बारपालो वदत्येवं श्रुत्वा वेदध्वनिं शुभम् । पुराणि रत्नानि शुभं ददामि याचतां वर ! ॥ इष्टं दानं द्बिजश्रेष्ठ ! दुर्लभञ्च महामते ! । तेनोक्तं दर्शनं द्बाःस्थ दीयतां दनुसत्तमे ॥ तदा स पूर्ब्बमादिष्टः प्रेषयामास तं नृपम् । बलिनं बलसम्पन्नं दानवं सुरमर्द्दनम् ॥ दानोद्यतकरो भद्रं दृष्ट्वा प्रीत्यावभाषत । किमायातो भवांश्चात्र कार्य्यं विप्र ! तदुद्दिश ॥ मोहिनीं जपमानस्तु वदते द्बिजकेशवः ॥ ब्रह्मोवाच । अहं संप्रेषयामास विद्धि मां कश्यपात्मजम् । यज्ञाः सेन्द्रैः समारब्धा ऋषिभिश्चासुरा- धिप ! ॥ तस्य निष्पत्तये नाथ ! आगतोऽहं तवान्ति- कम् । दानं मे दीयतां राजन् ! सिध्यते येन तन्मखः ॥ बल उवाच । येन संसिध्यते यज्ञो देवारब्धो द्विजोत्तम ! । तथा चाहं धनं दारान् शिरमद्य ददामि ते ॥ ब्रह्मोवाच । येन संसिध्यते यज्ञो देवानामसुराधिप ! । तद्देयं तच्च आदिष्टं सत्यमत्रावयोरपि ॥ बल उवाच । याच्यतां येन ते कार्य्यं सत्यं विप्र ! ददामि ते । संस्मृत्य मोहिनीं विद्यां वदते द्बिजसत्तमः ॥ ब्राह्मण उवाच । न मे धनैः स्वदारैर्वा न भूम्या गजवाजिभिः । रत्नैः कार्य्यं महाबाहो ! देवयज्ञोऽसुरा- धिप ! ॥ येन निष्पाद्यते यज्ञः सुखदश्च दिवौकसाम् । तमहं याचयिष्यामि दीयतां तद्व्रतं तव ॥ एतत् कार्य्यं मम भद्रं ऋषीणाञ्च विशेषतः । देवार्थं तव कायेन सिध्यते तन्मखोत्तमः ॥ तदा दत्ता तनुस्तेन दानवेन महात्मना । विष्णुनापि स्वचक्रेण शिरस्यभिहतोऽसुरः ॥ प्राकृतं देहमुत्सृज्य दिव्यकायस्त्वभूत्तदा । तस्यावयवसंजाता वज्राद्या रत्नजातयः ॥ लोचने सुरतेजांसि पद्मरागाणि चाभवन् । विशुद्धपात्रदानेन कायो रत्नाकरोऽभत् ॥” इति देवीपुराणे ४७ अध्यायः ॥

शब्दकल्पद्रुमः

बलः is an alternate of बलः. ब(व)लः || पुं, (बलते निरूपयति स्वेष्टमिति । बल + अच् । बलदेवपक्षे नामैकदेशग्रहणाच्चापि सिध्यति भीमादिवत् ।)

बल || क ङ निरूपणे । इति कविकल्पद्रुमः ॥ (चुरा०-आत्म०-सक०-सेट् ।)
क ङ, बाल- यते धर्म्मं धीरः । अयं कैश्चिन्न मन्यते । इति दुर्गादासः ॥

शब्दकल्पद्रुमः

बल || क म जीवने । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-अक०-सेट् ।)
बलयति । इति दुर्गादासः ॥

शब्दकल्पद्रुमः

बल || ङ दाने । वधे । निरूपणे । इति कवि- कल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।)
ङ, बलते । इति दुर्गादासः ॥

शब्दकल्पद्रुमः

बल || ज धान्यावरोधे । जीवने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-अक० च-सेट् ।)
बालः बलः । धनस्य भावो धान्यं समृद्धिस्तस्य अवरोधः प्रतिबन्धः धान्यावरोधः । बलति पुण्यहीनं विधिः । पुण्यहीनस्य समृद्धिं प्रतिबध्नाति इत्यर्थः । अयमर्थो अन्यैर्न्न मन्यते । बलत्य- न्नेन लोकः । इति दुर्गादासः ॥

Correction: