वाचस्पत्यम्
बलक्ष || पु० बलं क्षायत्यस्मात् क्षै—क । १ शुक्लवर्णे । २ तद्वति त्रि० । अमरः । अन्त्यस्थवादिरयमिति स्वामी ।
शब्दकल्पद्रुमः
ब(व)लक्षः || पुं, धवलः । इत्यमरः । १ । ५ । १३ ॥ बलतेः क्विप् बलं अक्षत्यस्मिन् घञ् बलक्ष इति कष संयोगवान् । इति रायमुकुटः ॥ अवलक्षते इति वलक्षः घञ् अकारलोपः । इति स्वाम्या- दयः ॥ एतन्मते अन्तःस्थवकारादिः ॥ (यथा, माघे । ६ । ३४ । “द्विरददन्तबलक्षमलक्ष्यत स्फु रितभृङ्गमृगच्छविकेतकम् ॥”)