संस्कृत-शब्दकोशः

बलदीनता बलदेवा

बलदेव

वाचस्पत्यम्

बलदेव ||‍ पु० बलेन दीव्यात दिव—अच बलोद्रिक्तो देवो वा शाक० त० । १ बलरामे “बलदेवो बलोद्रेकात्” ब्रह्मवै० ज० ख० ४३ अ० । २ त्रायमाणौषधौ स्त्री अमरः । ३ वायौ पु० मेदि० ।


शब्दकल्पद्रुमः

बलदेवः || पुं, (बलेन दीव्यतीति । दिव + अच् ।)
बलरामः । तत्पर्य्यायः । बलभद्रः २ प्रल- म्बघ्नः ३ अच्युताग्रजः ४ रेवतीरमणः ५ रामः ६ कामपालः ७ हलायुधः ८ नीलाम्बरः ९ रौहि- णेयः १० तालाङ्कः ११ मुषली १२ हली १३ सङ्कर्षणः १४ सीरपाणिः १५ कालिन्दी- भेदनः १६ बलः १७ । इत्यमरः । १ । १ । २४ ॥ रुक्मिदर्पः १८ मधुप्रियः १९ हलधरः २० हलभृत् २१ हालभृत् २२ सौनन्दी २३ गुप्त- वरः २४ संवर्त्तकः २५ बली २६ । इति शब्दरत्नावली ॥ (यथा भागवते । ९ । ३ । ३३ । “तद्गच्छ देवदेवांशो बलदेवो महाबलः ॥”)
अस्य ध्यानम् । “बलदेवं द्बिबाहुञ्च शङ्खकुन्देन्दुसन्निभम् । वामे हलायुधधरं मुषलं दक्षिणे करे ॥ हालालोलं नीलवस्त्रं हेलावन्तं स्मरेत् परम् ॥” इति कश्चिन्निबन्धः ॥ (अयं हि शेषसर्पस्यांशावतारः । यथा, महा- भारते । १ । ६७ । १५१ । “शेषस्यांशश्च नागस्य बलदेवो महाबलः ॥” नाम्नामस्य कारणानि बलभद्रशब्दे द्रष्टव्यानि ॥)
वायुः । इति मेदिनी । वे, ६२ ॥



Correction: