शब्दकल्पद्रुमः
बलभद्रा || स्त्री कुमारी । त्रायमाणा । इति मेदिनी । दे, २८४ ॥ (अस्याः पर्य्यायो यथा, — “बलभद्रा त्रायमाणा त्रायन्ती गिरिसानुजा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)