संस्कृत-शब्दकोशः

बलभद्रिका बलल

बलराम

वाचस्पत्यम्

बलराम ||‍ पु० बलेन रमते रम—संज्ञायां कर्त्तरि घञ् बलोप- पदको वा रामःशा० त० । कृष्णाग्रजे रोहिणीनन्दने संक- र्षणे रामस्य दाशरथिपरशुरामबलरामभेदेन त्रित्वात् अस्य बलोपदकत्वात्तथात्वम् ।


शब्दकल्पद्रुमः

बलरामः || पुं, (रम + भावे घञ् । बलेन रामो रमणं यस्य ।)
बलदेवः । यथा, —
“बलरामानुजः श्रीमान् गजेन्द्रस्तुतपादकः ॥” इति नारदपञ्चरात्रे चतुर्थरात्रीयः ८ अध्यायः ॥ अस्य ध्यानम् । “अन्तरे दिव्य उद्याने हरिचन्दनसंज्ञके । तत्राधस्तात् स्वर्णपीठे विचित्रे मणिमण्डपे ॥ तन्मध्ये मणिमाणिक्यदिव्यसिंहासनोज्ज्वले । तत्रोपरि च रेवत्या सङ्कर्षणहलायुधम् ॥ ईश्वरस्याभयानन्तमभिन्नगुणरूपिणम् । शुद्धस्फटिकसंकाशं रक्ताम्बुजदलेक्षणम् ॥ नीलचेलधरं स्निग्धं दिव्यगन्धानुलेपनम् । कुण्डलाश्लिष्टसद्गण्डं दिव्यमूषाम्बरस्रजम् ॥ मधुपाने सदासक्तं मदाघूर्णितलोचनम् । मुषलं दक्षिणे पाणौ बलरामं सदा स्मरेत् ॥” इति कश्चिन्निबन्धः ॥



Correction: