संस्कृत-शब्दकोशः

बलल बलवर्द्धिनी

बलवत्

वाचस्पत्यम्

बलवत् ||‍ अष्य० बल + अतिशये मतुप् मस्य वः । १ अतिशये अमरः । “बलदपि शिक्षितानाम्” शकुन्तला । २ बल- बिशिष्टे मोसले त्रि० अमरः स्त्रियां ङीप् ।


शब्दकल्पद्रुमः

बलवत् || व्य, (बलमस्यास्तीति । बल + मतुप् । मस्य वः ।)
अतिशयम् । इत्यमरः । ३ । ४ । १ ॥ (यथा, शाकुन्तले प्रस्तावनायां सूत्रधारस्योक्तिः । “बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥”)


शब्दकल्पद्रुमः

बलवान् || [त्], त्रि, (बलमस्यास्तीति । बल + मतुप् । मस्य वः ।)
बलविशिष्टः । तत्पर्य्यायः । मांसलः २ अंशलः ३ । इत्यमरः । २ । ६ । ४४ ॥ वीर्य्यवान् ४ बली ५ । इति शब्दरत्नावली ॥ (यथा, मनुः १ । ७६ । “आकाशात्तु विकुर्व्वाणात् सर्व्वगन्धवहः शुचिः । बलवान् जायते वायुः स वै स्पर्शगुणो मतः ॥”)



Correction: