संस्कृत-शब्दकोशः

बलशालिन् बलस्थिति

बलसूदन

वाचस्पत्यम्

बलसूदन ||‍ पु० बलं तन्नामकमसुरं सूदयति सूद—ल्यु । इन्द्रे हला० । बलनिसूदनोऽप्यत्र ।


शब्दकल्पद्रुमः

बलसूदनः || पुं, (बलं तन्नाम्ना प्रसिद्धं असुरं सूदयतीति । बल + सूद + ल्यु ।)
इन्द्रः । इति हलायुधः ॥ (यथा, देवीभागवते । ५ । ३ । १३ । “नोचेद्वज्रं गृहाणाशु युद्धाय बलसूदन ! ॥” विष्णुः । इति देवीपुराणे ४७ अध्यायः ॥)



Correction: