वाचस्पत्यम्
बलहन् || पु० बलनामासुरं बलं वा हन्ति हन—क्विप् । बला- रातौ १ इन्द्रे २ श्लेष्मधातौ शब्दर० । ३ बलरामे हरिवं० १११ अ० ।
शब्दकल्पद्रुमः
बलहा || [न्], पुं, (बलं सामर्थ्यं हन्तीति । बल + हन् + क्विप् ।)
श्लेष्मा । इति शब्दरत्नावली ॥ (बलं तन्नामानमसुरं हन्तीति । इन्द्रः ॥ पर- बलविनाशके, त्रि । यथा, हरिवंशे । ११० । ४२ । “तत्राहं युध्यमानस्तु भ्रातास्य बलहा बली । स्थितो ममाग्रतः शूरो गदापाणिर्हलायुधः ॥”)