संस्कृत-शब्दकोशः

बलालक बलास

बलाश

शब्दकल्पद्रुमः

बलाशः || पुं, (बलमश्नातीति । बल + अश + अण् ।)
श्लेष्मा । इति हेमचन्द्रः । ३ । १२६ ॥ (यथा, “बलाश एवायतमुन्नतञ्च शोफं करोत्यन्नगतिं निवार्य्य ॥” कण्ठगतरोगविशेषः । तल्लक्षणं यथा, —
“गले च शोफं कुरुतः प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम् । मर्म्मच्छिदं दुस्तरमेतमाहु- र्ब्बलाशसंज्ञं निपुणा विकारम् ॥” इति सुश्रुते निदानस्थाने षोडशेऽध्याये ॥ दन्त्यसान्तोऽप्ययं शब्दो दृश्यते ॥)



Correction: