शब्दकल्पद्रुमः
बलिदानं || क्ली (बलेः पूजोपकरणस्य देवतो- द्देशेन संकल्पितच्छागादेर्वा दानम् ।)
श्रीकृष्ण- पार्षदेभ्यस्तन्निवेदितनैवेद्यांशदानम् । यथा, — अथ बलिदानम् । “ततो यवनिकां विद्वानपसार्य्य यथाविधि । विश्वक्सेनाय भगवन्नैवेद्यांशं निवेदयेत् ॥ यथा च पञ्चरात्रे श्रीनारदवचनम् । विश्वक्सेनाय दातव्यं नैवेद्यं तच्छतांशकम् । पादोदकं प्रसादञ्च लिङ्गे चण्डेश्वराय च ॥ * ॥
तद्विधिश्चोक्तः । मुख्यादीशानतः पात्रान्नैवेद्यांशं समुद्धरेत् । सर्व्वदेवस्वरूपाय पराय परमेष्ठिने ॥ श्रीकृष्णसेवायुक्ताय विश्वक्सेनाय ते नमः । इत्युक्त्वा श्रीहरेर्वामे तीर्थक्लिन्नं समर्पयेत् । शतांशं वा सहस्रांशमन्यथा निष्फलं भवेत् ॥ पश्चाच्च बलिरित्यादिश्लोकायुच्चार्य्य वैष्णवः । सर्व्वेभ्यो वैष्णवेभ्यस्तं शतांशं विनिवेदयेत् ॥ * ॥
तौ च श्लोकौ । बलिर्विभीषणो भीमः कपिलो नारदोऽर्ज्जुनः । प्रह्लादश्चाम्बरीषश्च वसुर्वायुसुतः शिवः ॥ विश्वक्सेनोद्धवाक्रूराः सनकाद्याः शुकादयः । श्रीकृष्णस्य प्रसादोऽयं सर्व्वे गृह्णन्तु वैष्णवाः ॥ इति । इदं यद्यपि युज्येत दर्पणार्पणतः परम् । तथापि भक्तवात्सल्यात् कृष्णस्यात्रापि सम्भवेत् ॥ अथ बलिदानमाहात्म्यम् । नारसिंहे । ततस्तदन्नशेषेण पार्षदेभ्यः समन्ततः । पुष्पाक्षतैर्विमिश्रेण बलिं यस्तु प्रयच्छति ॥ बलिना वैष्णवेनाथ तृप्ताः सन्तो दिवौकसः । शान्तिं तस्य प्रयच्छन्ति श्रियमारोग्यमेव च ॥” इति श्रीहरिभक्तिविलासे ८ विलासः ॥ देवोद्देशेन यथाविधिपूजोपहारत्यागः । दुर्गादि- देवतोद्देशेन सङ्कल्पपूर्ब्बकच्छागादिपशुघात- नम् । यथा, —
“बलिदानेन सततं जयेच्छत्रून् नृपान् नृप ! ॥” इति कालिकापुराणम् ॥ अस्य विधिनिषेधौ बलिशब्दे द्रष्टव्यौ ॥ * ॥
अथ बलिदानक्रमः । स्वयमुत्तराभिमुखः पूर्ब्बा- भिमुखं बलिं अव्यग्रावयवं सुन्दरं हृष्टपुष्टं माल्यं कण्ठे वेष्टयित्वा स्नातं समानीय कृता- ञ्जलिः पठेत् । “ॐ वाराही यमुना गङ्गा करतोया सरस्वती । कावेरी चन्द्रभागा च सिन्धुभैरवसागराः ॥ पशुस्नानविधानाय सान्निध्यमिह कल्पय ॥” इति तीर्थान्यावाह्य ॐ अग्निः पशुरासीत्तेना- यजन्त स एतल्लोकमजयत्तस्मिन्नग्निः स ते लोको भविष्यति तं जेष्यसि पिबैता अपः । ॐ वायुः पशुरासीत्तेनायजन्त स एतल्लोकमजय- त्तस्मिन् वायुः स ते लोको भविष्यति तं जेष्यसि पिबैता अपः । ॐ सूर्य्यः पशुरासीत्तेनायजन्त स एतल्लोकमजयत् तस्मिन् सूर्य्यः स ते लोको भविष्यति तं जेष्यसि पिबैता अपः । ॐ वाचन्ते शुन्धामि प्राणांस्ते शुन्धामि श्रोत्रन्ते शुन्धामि मेढ्रन्ते शुन्धामि पायुन्ते शुन्धामि । मनस्त आप्यायतां वाक् त आप्यायतां प्राणन्त आप्या- यतां चक्षुस्त आप्यायतां श्रोत्रन्त आप्यायतां यत्ते क्रूरं यदा स्थितं तत्त आप्यायतां तत्ते निष्ठायतां तत्ते शुध्यतु सुमहोभ्यः स्वाहा । इति मन्त्रैः स्नापयित्वा ॐ मेघाकारस्तम्भमध्ये पशुं बन्धय बन्धय सशृङ्गाद्यवयवं पशुं बन्धय बन्धय ब्रह्माण्डखण्डरूपस्तम्भे पशुं बन्धय बन्धय ह्रः फट् स्वाहा ॐ ह्रां ह्रीं ह्रूं चां चण्डिकायै इमं पशुं प्रोक्षामि स्वाहा । इति प्रोक्षणम् । ततः सशृङ्गाद्यवयवं पशुं मोक्षं कुरु कुरु स्वाहेति मोक्षं कृत्वा क्षमस्वेति ललाटे सिन्दूरं दत्त्वा ॐ छागपशवे नम इति पाद्यादिकं दत्त्वा एतदधिपतये ॐ अग्नये नमः एतत्सम्प्रदानी- यायै ह्रीं दुर्गायै नमः इति पुष्पं दत्त्वा पशो- रङ्गदेवताः पूजयेत् । यथा, शिरसि ॐ रुधिर- वदनायै नमः ललाटे ॐ शार्ङ्गिण्यै नमः भ्रूमध्ये ॐ भृङ्गायै नमः चक्षुषोः ॐ त्रिनेत्रायै नमः कर्णयोः ॐ पार्व्वत्यै नमः घ्राणे ॐ गौर्य्यै नमः चिवुके ॐ चण्डिकायै नमः दन्तपङ्क्तौ ॐ उग्रचण्डिकायै नमः जिह्वायां ॐ चण्डघण्टायै नमः मुखे ॐ विरूपाक्षायै नमः ग्रीवायां ॐ चण्डायै नमः । पृष्ठे ॐ महाभैरव्यै नमः उदरे ॐ वैष्णव्यै नमः चतुष्पदे ॐ चण्डप्रियायै नमः पार्श्वयोः ॐ सर्व्वैश्वर्य्यै नमः कटिदेशे ॐ विरू- पाक्षायै नमः खुराग्रे ॐ कौशिक्यै नमः लाङ्गूले ॐ प्रहर्षिण्यै नमः सर्व्वाङ्गेषु पश्वधिष्ठातृदेव- ताभ्यो नमः । इति संपूज्य उत्सृजेत् । विष्णुः ॐ तत् सदद्याश्विने मासि शुक्ले पक्षे अमुक- तिथौ वार्षिकशरत्कालीनदुर्गामहोत्सवे अमुक- गोत्रस्य श्रीअमुकस्य दुर्गाप्रीतिकामनया दुर्गा- देव्यै इमं पशुं वह्निदैवतं तुभ्यमहं घातयिष्यामि इत्युत्सृज्य कृताञ्जलिः पठेत् । “ॐ छाग ! त्वं बलिरूपेण मम भाग्यादुप- स्थितः । प्रणमामि ततः सर्व्वरूपिणं बलिरूपिणम् ॥ यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयम्भुवा । अतस्त्वां घातयिष्यामि तस्माद्यज्ञे वधोऽवधः ॥ पशुयोनिप्रसूतोऽसि पूजाहोमादिकर्म्मसु । तुष्टा भवतु सा देवी सरक्तपिशितैस्तव ॥ चण्डिकाप्रीतिदानेन दातुरापद्विनाशनः । चामुण्डाबलिरूपाय बले ! तुन्यं नमोऽस्तु ते ॥” ततः “पगुपाशाय विद्महे शिरश्छेदाय धीमहि । तन्नः पशुः प्रचोदयात् ।” इति कर्णे जपेत् । ततः खड्गमानीत्र ह्रीं इति बीजाक्षरं लिखित्वा ध्यायेत् । “कृष्णं पिणाकपाणिञ्च कालरात्रिस्वरूपिणम् । उग्रं रक्तास्यनयनं रक्तमाल्यानुलेपनम् ॥ रक्ताम्बरधरञ्चैव पाशहस्तं कुटुम्बिनम् । पिबमानञ्च रुधिरं भुञ्जानं क्रव्यसंहतिम् ॥” एवं खड्गं ध्यात्वा गृहीत्वा, “ॐ रसनात्वं चण्डिकायाः सुरलोकप्रसाधकः ।” इत्यभिमन्त्र्य ऐं ह्रीं खड् गाय नम इति पाद्यादिभिः संपूज्य पुनर्मुष्टौ ॐ महादेवाय नमः । धारे ॐ यमाय नमः । अग्रे ॐ ब्रह्मणे नमः । “ॐ असिर्विशसनः खड गस्तीक्ष्णधारो दुरा- सदः । श्रीगर्भो विजयश्चैव धर्म्मपाल ! नमोऽस्तु ते ॥ इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा । नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ॥ हिरण्यञ्च शरीरन्ते धाता देवो जनार्द्दनः । पिता पितामहो देवस्त्वं मां पालय सर्व्वदा ॥ नीलजीमूतसङ्काशस्तीक्ष्णदंष्ट्रः कृशोदरः । भावशुद्धो मर्षणश्च अतितेजास्तथैव च ॥” ॐ तीक्ष्णदंष्ट्राय नम इति पुष्पं दत्त्वा आं ह्रीं फट् इति खड्गमादाय ॐ कालि कालि व्रजे- श्वरि लौहदण्डायै नम इति जपित्वा छागस्य ग्रीवायां खडग ! त्वं शीघ्रं छिन्धि छिन्धि फट् फट् स्वाहा । इति पूर्ब्बाभिमुखं बलिं स्वयमुत्त- रामुखः उत्तराभिमुखं बलिं स्वयं पूर्ब्बाभिमुखो वा सकृत्प्रहारेण छिन्द्यात् । ततो मृण्मयादि- पात्रे रुधिरमादाय चतुर्भागं कृत्वा ऐशान्यां ॐ विदारिकायै नमः आग्नेय्यां ॐ पूतनायै नभः नैरृत्यां ॐ पापराक्षस्यै नमः वायव्यां ॐ कौशिक्यै नमः । ॐ तत् सदद्यामुके मासि अमुकपक्षेऽमुकतिथौ वार्षिकशरत्कालीनदुर्गा- महोत्सवे अमुकगोत्रस्य श्रीअमुकस्य दशवर्षा- वच्छिन्नश्रीदुर्गाप्रीतिकामः श्रीदुर्गादेव्यै छागपशु- रुधिरं दास्यामि इति सङ्कल्प्य । ॐ कालि कालि महाकालि कालिके पाप- नाशिनि । शोणितञ्च बलिं गृह्ण वरदे वामलोचने ॥” एष रुधिरबलिः ॐ दक्षयज्ञेति मन्त्रेण दद्यात् । ततः ऐं ह्रीं श्रीं कौशिकि रुधिरेणाप्यायता- मिति वदेत् । ततः शिरसि ज्वलद्दशां दत्त्वा ॐ तत् सदद्यामुके मास्यमुकपक्षेऽमुकतिथौ वार्षिकशरत्कालीनदुर्गामहोत्सवे अमुकगोत्रस्य श्रीअमुकस्य श्रीमद्दुर्गादर्शनाभिवन्दनस्पर्शना- भिपूजनस्नपनतर्पणजनितपूर्ब्बपूर्ब्बाधिकपुण्य- प्राप्तिकामो दुर्गादेव्यै सप्रदीपच्छागपशुशीर्षं दास्यामीति सङ्कल्प्य एष सप्रदीपच्छागपशु- शीर्षबलिः ह्रीं दुर्गायै नम इत्युत्सृजेत् । “ॐ जय त्वं सर्व्वभूतेशे सव्वभूतसमावृते । रक्ष मां निजभूतेभ्यो वलिं भुङ्क्ष्व नमो- ऽस्तु ते ॥ ततः खड् गरुधिरमादाय । “ॐ यं यं स्पृशामि पादेन यं यं पश्यामि चक्षुषा । स स मे वश्यतां यातु यदि शक्रसमो भवेत् ॥” इति ललाटे तिलकं कुर्य्यात् । मेषघाते तु मेषे- त्यूहेन योज्यम् । मेषरुधिरदाने तु एकवर्षाव- च्छिन्नदुर्गाप्रीतिकामः । प्रभूतबलिदाने तु द्वौ वा त्रीन् वा अग्रतः कृत्वा संप्रोक्ष्य तत्तत्पशुभ्यो नम इति संपूज्य छाग त्वमित्येकवत्तनानूहेन प्रयोगः । पश्वन्तरेऽप्येवम् । वाक्ये तु एतान् पशून् तुभ्यमहं घातयिष्ये । रुधिरदाने तु एतान् रुधिरबलीन् दास्यामि इति सङ्कल्पा प्रत्येकेन दद्यात् शीर्षदानमप्येवम् । ततो मूल- मन्त्रं यथाशक्ति जप्त्वा समर्प्य प्रणमेदिति नन्दि- केश्वरपुराणोक्तपद्धतिः ॥ * ॥
अथ तान्त्रिकबलिदानविधिः । “तत्र सुलक्षणं पशुं देव्यग्रे संस्थाप्य वक्ष्यमाणविधिना उत्- सृजेत् । तदुक्तं यामले । ‘देव्यग्रे स्थापयित्वा तु पशुं लक्षणसंयुतम् । श्वेतसर्षपविक्षेपात् भूतानुत्सारयेत्ततः ॥’ अर्घ्योदकेन संप्रोक्ष्य अस्त्रेण संरक्ष्य कवचेनाव- गुण्ठ्य धेनुमुद्रयामृतीकृत्य गन्धपुष्पाक्षतैः पशुं संपूज्य मूलेन सप्तधा तत्त्वमुद्रया प्रोक्षणं कृत्वा कर्णे इमं मन्त्रं पठेत् । पशुपाशाय विद्महे विश्वकर्म्मणे धीमहि तन्नो जीवः प्रचोदयात् । ततो ह्रीं कालि कालि वज्रेश्वरि लौहदण्डायै नम इति मन्त्रेण खड् गं पूजयेत् । ततः खड्- गस्याग्रमध्यमूलं क्रमेण पूजयेत् । यथा हूं वागीश्वरीब्रह्मभ्यां नमः । हूं लक्ष्मीनारा- यणाभ्यां नमः । हूं उमामहेश्वराभ्यां नमः । ततो ब्रह्मविष्णुशिवशक्तियुक्ताय खड् गाय नमः । इति सर्व्वत्र पूजयित्वा प्रणमेत् । ‘खड्गाय खरशाणाय शक्तिकार्य्यार्थतत्पर ! । पशुश्छेद्यस्त्वया शीघ्रं खड् गनाथ ! नमोऽस्तु ते ॥’ ततो महावाक्यं अमुकदेवताप्रीतिकामः अमुकदेव्यै इमं पशुं तुभ्यमहं संप्रददे । ततो निवेदयेत् । ‘यथोक्तेन विधानेन तुभ्यमस्तु समर्पितम् ॥’ ततो बलिं छिन्द्यात् । ततो रुधिरं समांसं देव्यै दद्यात् । ततोऽवशिष्टं वटुकादिभ्यो बलिं दद्यात् यथा हुं वां वटुकाय नमः । इति गन्धादिभिः संपूज्य पूर्ब्बवन्मन्त्रेण वायव्ये बलिं दद्यात् । हुं यां योगिनीभ्यो नमः इति संपूज्य पूर्ब्बवन्मन्त्रेण ईशाने बलिं दद्यात् । हुं क्षां क्षेत्रपालाय नमः इति संपूज्य पूर्ब्बवन्मन्त्रेण नैरृत्यां बलिं दद्यात् । हुं गां गणपतये नमः इति संपूज्य पूर्ब्बवन्म- न्त्रेण आग्नेय्यां गणेशाय बलिं दद्यात् ।” इति तन्त्रसारः ॥ * ॥
(ननु “मा हिंस्यात् सर्व्वा- भूतानि” “अहिंसा परमो धर्म्मः ।” इत्यादि वचनान्न कर्त्तव्यैव सर्व्वथा हिंसा कथं तर्हि हिंसाप्रवृत्तिः शुभादृष्टजनकत्वेन शास्त्रेषूप- दिष्टा अतोऽत्रोच्यते । अथ वैधहिंसाविचारः । ‘मा हिंस्यात् सर्व्वाभूतानि’ इत्यत्र सर्व्वशब्दस्य व्यापकार्थपरतया एतद्विधिमनुल्लङ्घ्य ‘वायव्यं श्वेतमालभेत’ इत्यादि विधेर्विषयाप्राप्तेरगत्या वैधातिरिक्तविषयत्वं सर्व्वाः सर्व्वाणि छन्दसि वेत्यनेन तत्पदं सिद्धम् । यदपि नाना दर्शन- टीकाकृद्भिर्वाचस्पतिमिश्रैस्तत्त्वकौमुद्याम् अभि- हितं न च ‘मा हिंस्यात् सर्व्वाभूतानि’ इति सामान्यशास्त्रं विशेषशास्त्रेण ‘अग्नि- षोमीयं पशुमालभेत’ इत्यनेन वाध्येत इति वाच्यं विरोधाभावात् । विरोधे हि बलीयसा दुर्ब्बलं वाध्यते । न चास्ति विरोधः भिन्नषिषय- त्वात् । तथाहि ‘मा हिंस्यात् इति निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यते न पुनरक्रत्व- र्थत्वमपि । न चानर्थहेतुत्वक्रतूपकारकत्वयोः कश्चिदस्ति विरोधः । हिंसा हि पुरुषस्य दोष- मावक्ष्यति क्रतोश्चोपकरिष्यतीत्यन्तेन तदपि सांख्यनये । मीमांसकमते तु विरोध एव तथाहि गुरुनये न खलु सर्व्वभूतहिंसाभाव- विषयकं कार्य्यं इति निषेधविध्यर्थस्य वाधं विना अग्निषोमीयपश्वालम्भनविषयकं कार्य्यमिति भावविध्यर्थ उपपद्यते । भट्टनये तु अङ्गे यथा तथास्तु । न च मुख्यपशुयागे पुरुषार्थकपशु- हिंसनस्यार्थसाधनत्वं अनर्थसाघनत्वञ्चोपपद्यते विरोधात् । वस्तुतस्तु अङ्गेऽपि विरोधोऽस्त्येव कुतो विधेरेष स्वभावो यः स्वविषयस्य साक्षात् परम्परया वा पुरुषार्थसाधनत्वमवगमयति अन्यथाङ्गानां प्रधानोपकारकत्वमपि नाङ्गी- क्रियेत । अर्थसाधनत्वं बलवदनिष्टाननुबन्धीष्ट- साधनत्वं अनर्थसाधनत्वं बलवदनिष्टसाधनत्वं न चानयोरेकत्र समावेश इति । अतएवोक्तं ‘तस्माद्यज्ञे वधोऽवधः’ इति । नन्वेवं ‘श्येनेना- भिचरन् यजेत’ इत्यत्र श्येनस्य शत्रुवधरूपेष्ट- साधनत्वमवगतं ‘अभिचारो मूलकर्म्म च ।’ ११ । ६३ । इति मनुना उपपातकगणमध्ये पाठात् अनिष्टसाधनत्वमवगतम् । तदेतत्कथमुपपद्य- तामिति चेन्मैवं ‘आततायिनमायान्तं हन्या- देवाविचारयन् ।’ ८ । ३५० । इत्येकवाक्यतया आततायिस्थले इष्टसाधनत्वं अनाततायिस्थले तूपपातकत्वेन बलवदनिष्टसाधनत्वमित्यविरोध एव ॥” इति तिथितत्त्वम् ॥)