वाचस्पत्यम्
बलिभ is an alternate of बलिन. बलिन(भ) || त्रि० बलि + ग्रस्त्यर्थे—इन भ वा । जरया शिथिलचर्मवति अमरः ।
शब्दकल्पद्रुमः
ब(व)लिभः || त्रि (बलिश्चर्म्मसंकोचोऽस्त्यस्येति । बलि + “तुन्दिबलिंवटेर्भः ।” ५ । २ । १३९ । इति भः ।)
बलिनः । इत्यमरः । २ । ६ । ४५ ॥