संस्कृत-शब्दकोशः

बल्मीक बल्या

बल्य

वाचस्पत्यम्

बल्य ||‍ न० बलाय हितं बल + यत् १ प्रधानधातौ शुक्रे, २ तत्र- साधने च ३ अश्वगन्धायाम् ४ अतिबलायां, ५ शिसुडीक्षुपे ६ प्रसारिण्याञ्चे स्त्री राजनि० । बला० चतुरर्थ्यांयत् । ७ बल- + र्वृत्ते त्रि० ८ बुद्धभिक्षुके पु० त्रिका० ।


शब्दकल्पद्रुमः

ब(व)ल्यं || क्ली (बलाय हितम् । बल + “बुञ्छण् कठजिलसेनिरढञ्ण्ययेति ।” ४ । २ । ८० । इति यः ।)
प्रधानधातुः । शुक्रम् । बलकरे, त्रि । इति मेदिनी । ये, ४० ॥ (यथा, —
“कट्वम्लवीर्य्यो लशुनो हितश्च स्निग्धो गुरुस्वादुरसोऽथ बल्यः ॥” इति हारीते कल्पस्थाने तृतीयेऽध्याये ॥)


शब्दकल्पद्रुमः

बल्यः || पुं, (बलाय मुक्तये हितः । बल + यः ।)
बुद्धभिक्षुकः । इति त्रिकाण्डशेषः ॥



Correction: