संस्कृत-शब्दकोशः

बहिश्चर बहिस्

बंहिष्ठ

वाचस्पत्यम्

बंहिष्ठ ||‍ त्रि० अतिशयेन बहुः इष्ठन् बंहादेशः । अतिशय- बहुले अमरः ।


शब्दकल्पद्रुमः

बंहिष्ठः || त्रि (अयमेषामतिशयेन बहुलः । बहुल + “अतिशायने तमबिष्ठनौ ।” ५ । ३ । ५५ । इति इष्ठन् । “प्रियस्थिरेति ।” ६ । ४ । १५७ । इति बंहि-आदेशः ।)
अतिशयबहुलः । इत्यमरः ॥ (यथा, महाभारते । १२ । ३२८ । ३९ । “योऽद्भिः संयोज्य जीमूतान् पर्य्यन्याय प्रय- च्छति । उद्वहो नाम बंहिष्ठस्तृतीयः स सदागतिः ॥”)



Correction: