संस्कृत-शब्दकोशः

बंहीयस् बहुक

बहु

वाचस्पत्यम्

ब(व)हु ||‍ त्रि० बं(व)हि—कु नलोपः । १ त्रिप्रभृत्यनेकसङ्ख्यान्विते, २ विपुले च । ब(व)ह्रादि० स्त्रियां वा ङीप् । बहुत्वं च त्रित्वपर्य्यवसयि कपिञ्जलन्थायात् अपेक्षाबुद्धिवि- शेषजन्यत्वं तच्च पर्य्याप्त्या सर्वत्र वर्त्तते समवायेन प्रत्येकं वृत्तिमन् । अस्य संख्यावत् कार्य्यम् तेन बहुशः बहुत्र बहुतिथ इत्यादि ।


शब्दकल्पद्रुमः

बहु || त्रि (बंहते इति । बहि वृद्धौ + “लङ्घिबंह्योर्न लोपश्च ।” उणा० १ । ३० । इति कुर्नलोपश्च ।)
त्र्यादिसंख्या ॥ अनेकम् । विपुलः । इति मेदिनी । हे, ६ ॥ तत्पर्य्यायः । प्रभूतम् २ प्रचुरम् ३ प्राज्यम् ४ अदभ्रम् ५ बहुलम् ६ पुरुहम् ७ पुरु ८ भूयिष्ठम् ९ स्फिरम् १० भूयः ११ भूरि १२ । इत्यमरः । ३ । १ । ६३ ॥ तद्- वैदिकपर्य्यायः । उरु १ तुवि २ पुरु ३ भूरि ४ शश्वत् ५ विश्वम् ६ परिणसा ७ व्यानसिः ८ शतम् ९ सहस्रम् १० सलिलम् ११ कुवित् १२ । इति द्वादश बहुनामानि । इति वेदनिघण्टौ । ३ । १ ॥ (यथा, मनुः । ७ । ८६ । “अल्पं वा बहु वा प्रेत्य दानस्यावाप्यते फलम् ॥” तथा, तत्रैव । ८ । ७७ । “एकोऽलुब्धस्तु साक्षी स्याद्वह्व्यः शुच्योऽपि न स्त्रियः ॥” बहुमतम् । बहुमानम् । यथा, रघुः । १२ । ८९ । “रामस्तुलितकैलासमरातिं बह्वमन्यत ॥”)



Correction: