वाचस्पत्यम्
बहुक || पु० बहु + संज्ञायां कन् । १ कर्कटे २ सूर्य्ये ३ अर्कवृक्षे ४ दात्यूहे स्वगे ५ जलस्वातके च मेदि०
शब्दकल्पद्रुमः
बहुकः || पुं, (बहु + संज्ञायां कन् ।)
कर्कटः । अर्कः । दात्यूहः । जलखातकः । इति मेदिनी । के, १२९ ॥ (“संख्यायाः अतिशदन्तायाः कन् ।” ५ । १ । २२ । इति कन् । बहुभिः क्रीते, त्रि ।)